Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(१६) न्यपदिश्यते । तथैव व्यपदेशमर्हति । चतुर्दश्यंशानामेव सत्र बाहुल्यात् , अतश्चतुर्दशीव्यपदेश एव भूमन्यायेन युक्ततर इति ।
एवं च लौकिकटिप्पणेन दुर्बलेन प्राप्तमपि त्रयोदशीत्वं शास्त्रेण प्रबलेन बाध्यते । भवति हि दुर्बलेन प्रमाणेन प्रापितस्य पदार्थस्य प्रबलप्रमाणबोधितेन तेन बाधः । अङ्गीकृतश्चायं विषयो बहुत्र पूर्वमीमांसायां विरोधाधिकरणे बलाक्राधिकरणादौ च। न च दुर्बलस्यापि टिप्पणस्य प्रबलेन शास्त्रेण वाये तस्यानयंक्यप्रसङ्गः, एवं च आनर्थक्यप्रतिहतानां विपरीते बलाबलमिति न्यायेन टिप्पणस्यैव प्राबल्यं कुतो न स्यादिति वाच्यम् । टिप्पणस्य तिथ्यन्तरे चारितार्थ्यात् आनर्थक्याप्रसक्तेः । आनर्थक्यप्रतिहतानामेव बलाबलवैपरीत्यस्य तन्यायविषयत्वात् । न चोमास्वातिवचःप्रघोषत्वेन प्रसिद्धस्य 'क्षये पूर्वा' इत्यस्य वचनस्य जैनसकेन वहोः कालादारभ्य यथा प्रामाण्यमङ्गीकृतं तद्बलौकिकटिप्पणस्यापि प्रामाण्याङ्गीकारात् कथं तस्य दौर्बल्यमिति वाच्यम्। टिप्पणं हि गणनात्मकं, गणनविषये प्रमाणम् , न तु शासैकसमधिगम्ये तिथ्यादिनिर्णयविषये । अतश्च यथा वैदिकसम्प्रदाये तत्ततिथ्यादीनामुदयास्तमसम्बन्धमानं पञ्चाङ्गेन निर्णीयते इति तस्मिनेव विषये तस्य प्रामाण्यमङ्गीक्रियते, न तु तिथिवेधादिविपये। तिथिः कियता कालेन तिथ्यन्तरं विष्यति? कुत्र पूर्वा तिथि ग्राह्या ? कुत्रोत्तरा? औदयिकीत्वं च किवकालावच्छेदोदक्सम्बन्धित्वम् ? इत्यादिकं धर्मशास्त्रैकसमधिगम्यम् । ना पञ्चाङ्ग क्रमते । क्रममाणमपि स्वविषयादम्यत्र प्रवृत्तं अनुपात तामेवापद्येत । न हि व्याकरणैकसमधिगम्ये प्रकृतिप्रत्ययविधि नियमादिरूपे प्रवर्तमानं तद्विरुद्धं कथयत् सांख्यशास्त्रम्ौपनिषद वा शास्त्रं तत्र प्रामाण्यमभुवति । उतं ह्याचार्यकुमारिलेक"आचार्याः स्वविषयादन्यत्र बदन्तोऽनादर्तव्या भवेयु" इति।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74