Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 23
________________ (१४) [शासनएवं पौर्णमास्या अमावास्याया वा वृद्धौ टिप्पणे दृष्टायां पूर्वस्या औदयिकीत्वनिराकरणद्वारा द्वितीयस्या एव तिथेरौदयिकीत्वनिर्णयात् पूर्वस्या अनौदयिकीत्वेन तत्पूर्वस्याश्चतुर्दश्या एवौदयिकीत्वप्राप्त्या तस्या अपि पर्वतिथित्वेन वृद्धेरयोगात् तत्पूवतन्यास्त्रयोदश्या एवाऽपर्वतिथेवृद्धिं कृत्वा ट्युदयस्पर्शित्वमापाद्य लौकिकटिप्पणप्राप्तचतुर्दश्यामपि त्रयोदश्या एवौदयिकीत्वसम्पादनम् । एवमेव पर्वानन्तरपर्वतिथिषु पौर्णमास्यमावास्यादिषु वृद्धिक्षयविषयिणी व्यवस्था सिध्यति । एतद् व्यवस्थानुकूलानि प्रमाणान्यपि बहुधा जैनागमानुसारीणि दृश्यन्ते । तानि यथा श्रीविजयदेवसूरिविरचिते मतपत्रके तिथिहानिवृद्धिविषये-"ननु पूर्णिमा चतुर्दश्यां सङ्क्रामिता तदा भवद्भि चतुर्दश्यौ कथं न क्रियेते तृतीयस्थानवर्तिनी त्रयोदशी कथं वर्द्धिता इति त्वं पृच्छसि, शृणु तत्रोत्तरम् । जैनटिप्पणके तावत् पर्वतिथीनां वृद्धिरेव न भवति ततः परमार्थतस्त्रयोदश्येव वर्धिता” इति । तत्रैवापरत्र"तस्मात् त्यज कदाग्रहम् , कुरु पूर्णिमाभिवृद्धौ द्वे एव त्रयोदश्यौं" इति, तत्रैवान्यत्र च-"यथावदागमानुसारेण पूर्वाचार्यपरम्परया च प्रवर्तितव्यम् । परं कदाग्रहं कृत्वा कुमार्गप्रवर्तनं न कार्यम् । उत्सूत्रप्ररूपणेनानन्तसंसारवृद्धेः । तस्मात् सिद्धमेतत्-पूर्णिमाभिवृद्धौ त्रयोदश्यभिवर्धनमिति" इत्यादीनि । प्रमाणैरेभिष्टिप्पणे पर्वतिथेवृद्धौ दृष्टायां पर्वानन्तरपतिथे; तथात्वे परमार्थतोऽपर्वतिथेरेव वृद्धिः कार्येति स्पष्टमेवावगम्यते । अतो रीतिरियमेव शास्त्रसङ्गता अविरुद्धा च । अत एव चेयमनुसृता रीतिराचार्यश्रीसागरानन्दसूरिभिरपि । तैः पूर्वाचार्योपज्ञानि प्रमाणान्युपन्यस्तानि बहूनि स्वमतपरिपोषणाय । तानि च विचार्यमाणानि सर्वथा प्रमाणपदवीं नातिवर्तन्ते । तथाहि महोपाध्यायश्रीधर्मसागरप्रणीततत्त्वतरङ्गिण्याम्-"नन्वौदयि. कतिथिस्वीकारान्यतिथितिरस्कारप्रवणयोरावयोः कथं त्रयोदश्या Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74