Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 21
________________ (१२) [शासन तथा-पर्वतिथिः कार्या इति । अर्थात् टिप्पणे पर्वतिथेवृद्धौ सत्यामुभयत्रापि पाक्षिकतया पर्वतिथित्वप्राप्तौ एतच्छास्त्रस्य नियामकत्वे सिद्धेऽपि नियमशास्त्रस्य विधिमुखेन प्रवृत्तरेव शास्त्रसम्मतत्वात् तादृशोऽर्थस्सुसम्पाद्यः। एवं च द्वितीयस्यां पर्वतिथावष्टम्यादावौदयिकीत्वं नियम्यते-द्वितीयैव तिथिरौदयिकी भवेन्न पूर्वेति । एवञ्चानेन शास्त्रेण द्वितीयाया एवौदयिकीत्वबोधनात् प्रथमायास्तदभावात् तत्पूर्वतन्यास्सप्तम्या एव वृद्धिः इति सिद्ध भवति । एवं सति यन्मध्यस्थेनैतच्छोकपादव्याख्यानावसरे "तेन नियमविधिविधायकेन शास्त्रेण तिथिवृद्धौ उत्तरस्यामेवौदयिकीत्वं नियम्यत इति कचित् टिप्पणे तिथीनां वृद्धौ दृष्टायां आराधनार्थमुत्तरा द्वितीया तिथिः स्वीकर्तव्या” इति च परस्परविरुद्धं वचचं मध्यस्थस्य कथमुपादेयकोटिमारोहेत् । समानरूपतया श्रुते वाक्यदये "क्षये पूर्वा तिथिः कार्या" इत्यत्र सप्तम्यां पूर्वस्यामष्टमी विधानं, अष्टमीत्वविधानं वा, "वृद्धौ कार्या तथोत्तरा" इत्सव औदयिकीत्वनियमनम् , इति वैरूप्याङ्गीकरणे किं प्रमाणं? कि का फलमिति सानुरोधं पृष्टो मध्यस्थमहोदयः किं वा समुचितमुत्तरं दद्यादिति न जानीमः । अथवा "मुखमस्तीति वक्तव्यं दशहस्ता हरीतकी" इति न्यायमनुसन्दधतो मध्यस्थस्य किमर्थमुत्तरं देयम् ? किञ्च "वृद्धा तिथिः द्विरुदयं स्पृशतीति कतरा तिधिरोदयिकीति सन्देहे 'वृद्धौ कार्या तथोत्तरा' इति नियमविधिविधायकेन शास्त्रेणोत्तरस्यामेवौदयिकीत्वं नियम्यते” इति मध्यस्थस्योक्तिः। नेयं शास्त्रीयां सरणिमनुसरति । यतो हि स्वयमेकाऽवनोकम्"तिथिश्च प्रातः प्रत्याख्यानलायां या स्यात् सा प्रमाणम् इति श्राद्धविधिप्रकरणस्थवचनोपन्यासपूर्वकं प्रत्याख्यानघेला व सूर्योदयसमयः। एतादृशी सूर्योदयस्पर्शिन्येव तिथिरौदायिकीत्युच्यते । इति । 'वृद्धायास्तिथे यदयस्पर्शित्वे दिनदवेऽप्योंदविकीत्वं वसा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74