Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका ]
( १३ )
एव विध्यतीति कतरा तिथिरौदयिकीति सन्देहः कथमुदियात् ! उभयोरौद विकीत्वेन पाक्षिकत्वाभावात् “नियमः पाक्षिके सति" इति पक्षप्राप्तविषयविषयक नियमविधित्वं वा तस्य कथं स्यात् । 'नियमविधिविधायकेन' इति शब्दे ते सर्वेऽपि दोषास्समुन्मिपन्ति ये 'अपूर्वविधिविधायकेन' इत्यत्र समुद्भाविताः । अतो " वृद्धौ कार्या तथोत्तरा" इत्यत्र मध्यस्थमते नियमविधिस्वरूपमेव न सिध्यति ।
ननु महता प्रयासेन " " वृद्धौ कार्या तथोत्तरा" इत्यस्य नियमविधित्वं मध्यस्थेनोक्तं दूषयद्भिर्भवद्भिस्स एव नियमविधिपक्षः स्वीकृतः कथमिति चेत् — नास्माकं पक्षेऽयं वाक्यार्थो यो मध्यस्थेनोल्लिखितः । किन्तु पर्व तिथित्वनियमनरूपः । पञ्चाङ्गे वृद्धौ क्षये वा कस्याश्चित्तिथेर्दृष्टायां पर्वतिभिरेकैव भवतीति मध्यस्थेनाऽपि स्वीकृतम् । अतश्च सत्यपि तिथेर्दिनद्वयेऽप्यौदायिकीत्वे आराधनस्यैकैव पर्वतिथिरपेक्षिता सा पूर्वा परा वेति सन्देहे परस्याः पक्षप्राप्ताया नियमनमप्राप्तांश पूरणरूपं घटत एवेति नास्माकं पक्षे दोषलेशोऽपि ।
एवमेकां वृद्धां क्षीणां वा पर्वतिथिमधिकृत्य “ क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इति वचनार्थो विचारितः । इदानीं पर्यानन्तरप्रर्वतिथिषु विचारः क्रियते । तत्र पूर्णिमामावास्यादिषु पर्षानन्तरपर्वतिथिषु टिप्पणानुसारेण क्षीणासु वृद्धासु वा तत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिथित्वेन तस्याः क्षयो वृद्धिर्वा न भवितुमर्हति । एकस्मिन् दिने औदयिकीतिथिरेकैव भवति । एवं च पूर्णिमाया अमावास्याया वा टिप्पणे क्षये दृष्टे तस्याः पर्वतिथिara क्षयासम्भवेन " क्षये पूर्वा तिथिः कार्या" इत्यनेनौदयिकीत्वे प्रसाधिते तत्पूर्वस्याश्चतुर्दश्या अपि पर्वतिथित्वेनौदयिकीत्वावश्यकतया सत्पूर्वस्यास्त्रयोदश्या एव क्षयं कृत्वा तस्मिन् दिने औदत्वं सम्पाद्याराधनं कार्यम् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74