Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
जयपताका]
(१५) अपि चतुर्दशीत्वेन स्वीकारो युक्तः”, इत्याशंक्य "तत्र त्रयोदशीति व्यपदेशस्याप्यसंभवात् , किन्तु प्रायश्चित्तादिविधौ चतुर्दश्येवेति व्यपदिश्यमानत्वात्" इति समाहितम् । एतेनेदं सिध्यतिलौकिकटिप्पणे त्रयोदशीस्वेन श्रुताया अपि क्षये पूर्वा तिथिः कार्या इत्युमास्वातिप्रघोषत्वेन प्रसिद्धेन शास्त्रेण पर्वतिथेरौदयिकीसंज्ञाविधानात् तस्याः क्षयाभावात् फलतोऽपर्वतिथेरेव क्षयसिद्धेः तत्र चतुर्दश्येव शास्त्रतः प्राप्तेति सैव व्यपदेशमर्हति । व्यपदिश्यते च तथा प्रायश्चित्तादौ । न तु त्रयोदशीति व्यपदेशः क्रियत इति ।
अयमभिप्रायः-शास्त्रेण पर्वतिथेः क्षयाभावकथनादपर्वतिथेरर्थात् क्षयप्राप्तेः चतुर्दश्याश्च पर्वतिथित्वेन तत्क्षयस्याकरणात् तत्पूर्वस्यास्त्रयोदश्या एव क्षये कृते क्षीणतिथेपदेशः प्रयोजनाभावान्न युक्तः। अत एव तस्य व्यपदेशो न क्रियते, किन्तु चतुदेश्या एव भूमाधिकरणन्यायेन भूयसा व्यपदेशः क्रियते । तथाहि-सृष्टीरुपदधाति यथा सृष्टमेवावरुन्धे” इति चयनप्रकरणे श्रूयते । तत्र सृष्टिशब्देन तद्वानासामुपधानो मन्त्र-"इतिष्टकासु लुक् च मतोः” इति पाणिनिसूत्रेण सिद्धया प्रक्रियया सृष्टिवाचकपदघटितमन्त्रोपधेया इष्टका उच्यते । तत्र विशेष्यभूतानामिष्टकानां प्राप्तत्वात् विशेषणीभूतानां मन्त्राणामेव विधिः । तत्र सृष्टिपदेन सृष्ट्यसृष्टिसमुदायरूपसप्तदशसंख्याकमन्त्रा अभिधीयन्ते । तस्मिन् समुदाये तिसृभिरस्तुवत ब्रह्मासृज्यत, इत्याद्याश्चतुर्दशमन्त्रास्मृष्टिवाचकपदघटिताः । एकयाऽस्तुवत प्रजा अधीयत, इत्यादिकास्त्रयो मन्त्रास्तदघटिताः । तादृशोभयघटितसमुदायस्सृष्टिशब्देनोच्यते भूना बाहुल्येन । अर्थात् समुदाये सृष्टिवाचकपदघटिता मन्त्रा बहुलं सन्तीति । एवं दिने यस्मिन् त्रयोदश्याः क्षयश्शास्त्रेणोक्तः तस्मिन् दिने अधिकांशश्चतुर्दश्या व्याप्तः तव्याप्तश्चाल्पीयानंशः । तादृशोभयांशसमुदायश्चतुर्दशीपदेन
तस्मिन् समुदाय विघटिताः । एकसातादृशोभयघटित
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74