Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 20
________________ जयपताका] (११) दश्वाभिधान्यां यावन्मन्त्रः प्रवर्तते ततः पूर्वमेव प्रवृत्तः सन विधिरश्वाभिधान्यां मन्त्रं विदधातीति अप्राप्तिदशायामेव विधेः प्रवृत्तत्वात् अपूर्वविधितुल्य एव । परन्तु एतद्विध्यभावे मन्त्री लिङ्गादश्वाभिधान्यामिव गर्दभाभिधान्यामपि प्राप्नुयादिति तव्यावृत्तिफलकोऽयं विधिः स्वरूपतोऽपूर्वविधिरेव सन् परिसंख्याफलकत्वात् फलतः परिसंख्याविधिरित्युच्यते । इतरप्रमाणस्याप्रवृत्तिदशायामेव विधेः प्रवृत्तत्वाच्च न प्राप्तबाधादिकं त्रैदोष्यमिति मीमांसासिद्धान्तः । एवं प्रकृतेऽपि पर्वतिथेर्दिनद्वयसूर्योदयसम्बन्धरूपायां वृद्धौ सत्यां उभयत्राप्यौदयिकीत्वसत्त्वात् दिनदयेऽपि आराधनं पाक्षिकतया प्राप्तम् । तत्र “वृद्धौ कार्या तथोत्तरा" इत्यनेनोत्तरस्या औदयिकीत्वबोधनपूर्वकं पूर्वस्या औदयिकीत्वं व्यावर्त्यते । औदयिकीत्वाभावाच्च सा अपर्वतिथिस्सम्पद्यते । तत्पूर्ववर्तिनी सप्तम्येवौदयिकी द्विःसूर्योदयस्पर्शिनीति सैव वृद्धति मन्तव्यम् । न च त्रैदोष्यम् । “वृद्धौ कार्या" इत्यस्य शास्त्रस्य द्वितीयस्या औदयिकीत्वप्रापणे तात्पर्याभावात् , पूर्वस्या औदयिकीत्वव्यावृत्तावेव तात्पर्येऽपि लौकिकटिप्पण्या लौकिकरूपतया सामान्यशास्त्ररूपत्वाद्वा लोकतः पूर्व शास्त्रस्य सामान्यशास्त्रतः पूर्व वा विशेषशास्त्रस्य प्रवृत्तेः शास्त्रसिद्धतया टिप्पणप्रवृत्तेः पूर्वमेव 'वृद्धौ कार्या' इत्यस्य प्रवृत्तत्वात् , एतच्छास्त्रप्रवृत्तिदशायां टिप्पण्या अप्रवृत्तत्वात् इतरप्रमाणस्याप्रवृत्तिदशायामेव शास्त्रस्यास्य प्रवृत्ततयाऽपूर्वविधित्वेऽपि एतद्विध्यभावेऽपि तस्य प्राप्स्यमानतया एतद्विधिप्रवृत्तेः फलजिज्ञासायां उभयत्राप्यौदयिकीत्वं स्यादित्येकतरत्र तव्यावृत्तिफलकोऽयं विधिरिति फलतः परिसंख्याविधिरेव । अप्राप्तिदशायामेव प्राप्तत्वाच्च न प्राप्तबाधादिदोषत्रयमिति । अथवा वचनस्यास्य नियमविधित्वमङ्गीकृत्य व्याख्या क्रियते । लौकिकटिप्पणे कस्याश्चित्तिथेवृद्धौ दृष्टायां उत्तरा द्वितीयैव तिथि: Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74