Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 19
________________ (१०) [शासनप्रधानत्वात्तिथेश्च गुणभूतत्वात्-गुणभूततिथ्यनुरोधेनाराधनस्य प्रधानभूतस्य द्विःकरणायोगात् गुणानुरोधेन प्रधानवृत्तेरन्याय्यत्वात् । अत एकस्मिन्नेव दिने आराधनार्थमौदयिकीत्वमपेक्षितम् । तत्राऽविशेषादुभयोरपि पाक्षिकतया प्राप्तौ सत्यामनेन वचनेन पूर्वस्यामौदयिकीत्वं परिसंख्यायते-पूर्वा नौदयिकी भवितुमर्हति, किन्तूत्तरैवेति । न च परिसंख्याङ्गीकारे स्वार्थहानिः, परार्थस्वीकारः, प्राप्तबाधश्चेति त्रैदोष्यापत्तिरिति शङ्कनीयम् । “इमामगृभ्णन् रशनामृतस्येत्यश्वाभिधानीमादत्त" इतिवत् फलतः परिसंख्याङ्गीकारेण तदनापत्तेः । तथाहि-महाग्निचयनप्रकरणे "इमामगृभ्णन् रशनामृतस्य" इत्येको मन्त्रः श्रूयते । स च रशनाग्रहणप्रकाशकः । तत्र संवत्सरपर्यन्तं धार्यस्याग्नेः निक्षेपणाय विहिताया उखाया निर्माणाय मृदाहरणीया । तदर्थमेकोऽश्व एको गर्दभश्च मृत्खननदेशं प्रति नीयते । खातां मृदं तयोरुपर्यारोप्य पुनरानयनकाले तदुभयकण्ठगते द्वे अपि रज्जू पृथक् पृथक् ग्रहीतव्ये । तत्रायं मन्त्रो रशनादानप्रकाशनसामर्थ्यरूपाल्लिङ्गादगतया प्राप्नोति । परमुभयोरपि रशनात्वाविशेषाद्रशनाद्वयादानेऽपि प्राप्नुयात् । तन्मा भूदित्येतदर्थमयं विधिः-"इमामगृभ्णनशनामृतस्येत्यश्वाभिधानीमादत्त" इति । अनेन मन्त्रेण गर्दभरशनां नाददीत, किन्तु अश्वरशनामेवाददीत इति तदर्थः । न ह्यस्य विधेरश्वरशनादाने मन्त्रविनियोगे तात्पर्यम् । तस्य मन्त्रलिङ्गादेव प्राप्स्यमानत्वात् । किन्तु लिङ्गात्प्राप्तिस्वीकारेऽश्वाभिधान्यामिवाऽविशेषाद्गर्दभाभिधान्यामपि मन्त्रः प्राप्नुयात् । तद्व्यावृत्तिरनेन क्रियते । अतो गर्दभरशनातो मन्त्रस्य व्यावृत्तिरनेन क्रियत इत्ययं परिसंख्याविधिरित्युच्यते । एवं च विधेर्न मन्त्रस्याश्वरशनायां प्रापणे तात्पर्यम् । किन्तु गर्दभरशनातो निवृत्तावेवेति परिसंख्याविधिरेवायम् । न च त्रैदोष्यापत्तिः । लिङ्गा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74