Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
(८) .. [शासनतेन पर्वतिथिसत्त्वस्य बहुधा प्रतिपादनात् । सिद्धे च पर्वतिथिसत्त्वे तिथिसामान्यरूपायामपर्वतिथौ अवश्यकर्तव्यस्य कस्यचिदनिरूपणात् अवश्यकर्तव्यविशिष्टा पर्वतिथिरेवात्रोद्देश्यतां भजते । अतस्तस्याः क्षयासम्भवात् तत्पूर्वस्या अपर्वतिथेरेव क्षयः फलति । पर्वतिथेस्तु अनेन वचनेनौदयिकीत्वं विधीयते । या पर्वतिथिरष्टम्यादिः सा पूर्वा कार्या । पूर्वानिष्ठमौदयिकीत्वमत्र भाव्यमिति । तिथेः क्षयो नाम नात्यन्ताभावो ध्वंसो वा । तस्यास्तदिने सत्त्वात् । किन्तु तस्यास्सूर्योदयानन्तरोत्पन्नत्वेन औदयिकीत्वा: भावात् स एव क्षयशब्देनोच्यते । एवं च तद्दिने भवन्त्या अप्यष्टम्यादितिथेरुदयसम्बन्धाभावाद्यदौदयिकीत्वं गतं तदनेन विधीयते। अन हि न पूर्वात्वं विधेयतावच्छेदकम् । तस्य पूर्वमेव सत्त्वात् । न वाऽष्टमीत्वम् , तस्य विधातुमशक्यत्वस्य पूर्वमेव निरूपितत्वात् । किन्तु पूर्वानिष्ठं यदौदयिकीत्वं तदेवानेन विधीयतेऽप्राप्तत्वात् । एवं चाराधनाङ्गत्वेन विहितायां पर्वतिथौ अष्टम्यादौ पञ्चाङ्गदृष्टक्षयप्रयुक्तौदयिकीत्वाभावमपोद्य अनेन वचनेनौदयिकीत्वं विधीयते । : अतश्चायमर्थस्सिद्धो भवति । पर्वतिथेः पञ्चाङ्गे क्षये दृष्टे सति (उदयसम्बन्धाभावे सति) तत्पूर्वतनापर्वतिथिनिष्ठमौदयिकीत्वं पर्वतिथौ भावयेदिति, एवञ्चानेन विधिनाऽष्टम्यादेरौदयिकीत्वे विहिते तद्विशिष्टा पर्वतिथिराराधनयोग्या भवति । “तिसभ्यो हि करोति योत्तमा सा प्रथमा, या प्रथमा सा मध्यमा, या मध्यमा सोत्तमा, कुलायिनी त्रिवृतो विष्टुतिः" इति स्तोत्रीयर्गतक्रमवैपरीत्यविधानं विष्टुतौ तद्वत् । अथवा पूर्वा इत्येतदेवोद्देश्यवाचकं पदम्। प्रकरणात् योग्यताबलाद्वा तिथिरिति लभ्यते । टिप्पणे पर्वतिथीनां क्षये दृष्टे सति पूर्वा तिथिः, तिथि:-पर्वतिथिः कार्या इत्यर्थः। 'क्षीणत्वेन दृष्टाया अष्टम्यादिपर्वतिथेः पूर्वस्यां सप्तम्यादौ कियन्तोंडशा वर्तन्त इति न ते विधातव्याः। “अप्राप्ते शास्त्रमर्थवत्" Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74