Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 16
________________ जयपताका ] न्मध्याह्वव्याप्तिः, कासाञ्चिदापराह्निकीत्वम्, कासाश्चित् कर्मकालव्यापिता इति च तेषु तेषु कर्मसु तिथिसम्बन्धोऽङ्गीक्रियते तथापि जैनसम्प्रदाये " तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम्, सूर्योदयानुसारेणैव लोकेऽपि दिवसादिव्यवहारात्,” 'चाउम्मासिय वरिसे, पक्खिय पंचमीसु नायवा । ताओ तिहियो जासिं, उदेइ सूरो न अण्णाओ ॥ १ ॥ पूआ पञ्चक्खाणं पडिकमणं तहय नियमगहणं च । जाए उदेइ सूरो तीइ तिहिए उ काय ॥ २ ॥ उदयंमि जा तिही सा पमाणमिअरीइ कीरमाणीए । आणाभंगऽणवत्था मिच्छत्त विराहणं पावे ॥ ३ ॥ इत्यादिप्रमाणजातैः, "आदित्योदयवेलायां, या स्तोकाऽपि तिथि - भवेत् । सा सम्पूर्णेति मन्तव्या, प्रभूता नोदयं विना ॥ १ ॥ उदयन्नेव सविता, यां तिथिं प्रतिपद्यते । सा तिथिस्सकला ज्ञेया, दानाध्ययनकर्मसु ॥ २ ॥ ( स्नानदानजपादिषु ) इत्यादिवचनसंवादिभिः औदयिकी तिथिरेव सर्वकार्योपयोगिनीति स्वीक्रियते । लौकिक टिप्पणे तिथीनां कदाचित्क्षयो लिख्यते, कदाचिद्वृद्धिश्च । तत्र क्षयो नाम सूर्योदयास्पर्शित्वम् अर्थात् प्रथमदिने सूर्योदया - नन्तरमेव प्रवृत्तिः । द्वितीयदिनीयसूर्योदयात्पूर्वमेव समाप्तिः । एवं चाराधनाङ्गत्वेन विहितायाः कस्याश्चित् पर्वतिथेः लौकिकटिप्पणे तादृशे क्षये लिखिते तस्या औदयिकीत्वाभावेन कथङ्कारं तत्राराधना क्रियतामिति विचारे समुत्पन्ने वचनमिदं प्रवर्तते - 'क्षये पूर्वा तिथिः कार्ये 'ति । कस्याश्चित् पर्वतिथेः टिप्पणे क्षये दृष्टे सति सा पूर्वा तिथिः कार्या इति वचनव्यक्तिरङ्गीकार्या । अत्र तिथिरित्युद्देश्यसमर्पकम् । पूर्वेति पदं विधेयसमर्पकम् । तिथिरिति सामान्य श्रुतमपि तिथिपदं प्रकरणात् पर्वतिथिपरम् । न च तिथिषु पर्वापर्वविभाग एव नास्तीति भ्रमितव्यम् । प्रवचनसारोद्धारादौ - " चतुर्दश्यष्टम्यमावास्या पौर्णमासीषु पर्वतिथिषु ” "चतुष्प कृतसम्पूर्णचतुर्विधपौषधः" इत्यादिना वचनजा (( ७ ) Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74