Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
( ६ )
[ शासनद्वयं कृच्छ्रतेनैकेन विधिना विधीयत इति । यदि अप्राप्तायास्तिथेरेव विधायकं वचनमिति तदाशय उपवर्ण्यत तर्हि अपूर्वविधिविधायकेनेति किमुच्यते ? न ह्यपूर्वविधेर्विधायकं किञ्चिदपेक्ष्यते । न वा " क्षये पूर्वा" इत्यपूर्वविधेर्विधायकम् । अष्टम्यादेर्विधिरपि न भवितुमर्हतीति पूर्वमेव निरूपितम् । एवमुत्तरत्राऽपि तस्मिन्नेव पृष्ठे - " एवं भाद्रपद शुक्लचतुर्थ्याः क्षये सांवत्सरिकं प्रतिक्रमणं पूर्ववर्तियां तृतीयायां चतुर्थी स्थापयित्वाऽऽराधनीय” मिति यदुक्तं तदप्यनेन न्यायेनासङ्गतमेव । किञ्च - क्वचित् 'पूर्वस्यां सप्तम्यादौ अष्टम्यादितिथिर्विधीयते' इति, कुत्रचित् सप्तमीत्वं निराकृत्याष्टमीत्वं स्थाप्यत इति, कुत्रचित् 'क्षीणतिथिविषयकमाराधनं पूर्वस्यां तिथौ कार्यमित्यर्थः ' इति चैकस्याऽस्य वचनस्य परस्परविरुद्धाननेकानर्थान् ब्रुवन् कमप्यर्थं निश्चेतुमपारयन् मध्यस्थः स्वीयमसामर्थ्य - मेव भयन्तरेण प्रकटयति । तथाहि - सप्तम्यादावष्टम्यादिविंधीयत इत्यत्र सप्तम्य। देरुद्देश्यत्वं अष्टम्यादेर्विधेयत्वं च प्रतीयते । यथा तप्ते पयसि दध्यानयति, इत्यत्र तापविशिष्टं पय उद्दिश्य दधिप्रक्षेपो विधीयते तद्वत् । द्वितीयपक्षे - सप्तमीत्वं सप्तमी - तोsपास्य अष्टमीत्वरूपो धर्मो विधिविषयीक्रियते इति गम्यते । तृतीयपक्षे - सप्तम्यधिकरणाराधनानिष्ठ कर्तव्यता विधिविषयतामा - पाद्यते इति प्रतिभाति । एवं परस्परविरुद्धाननेकानर्थान् ब्रुवन्नुद्देश्यविधेयभावानपि भिन्नभिन्ननिष्ठतया कथयन् अर्थत्रयस्याप्येकरूपतामभ्युपगच्छन् मध्यस्थः कथमाप्तकोटावुपादेयकोटौ वाऽन्तर्गमनीयो भवेत्, इति सुधिय एव पर्यालोचयन्तु ।
अतश्च " क्षये पूर्वा तिथिः कार्या" इत्यत्रोद्देश्यविधेयभावकथनं तस्यापूर्वविधिविधायकत्वोक्तिः सप्तम्यामष्टमीत्वस्थापनं चेत्यादिकं मध्यस्थस्य भ्रमप्रमादादिमूलकमेव ।
अतोऽस्य वचनस्यैवमर्थो वर्णनीयः, यद्यपि वैदिकसम्प्रदाये तत्तद्विभ्यनुसारेण कासाञ्चित् तिथीनामौदयिकीत्वम्, कासाश्चि
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74