Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 18
________________ जयपताका ] इति न्यायात् । किन्तु अप्राप्तसूर्योदयावधिकांशानामेव विधानेना, अष्टम्यादिपर्वतिथिरेव पूर्वस्याः टिप्पणे औदयिकीत्वेन दृष्टायास्सतम्यादितिथेः स्थाने औदयिकी विधेयेति फलति । एतादृशं फलीभूतमर्थ मनसि निधायैव आचार्यश्चीसागरानन्दसूरिभिः पूर्वस्या अपर्वतिथेः क्षयः-(व्यपदेशाभावः) कार्यः इत्युतमिति प्रतीयते । अयमेव चार्थस्साधीयान् शास्त्रसङ्गतश्च । एष एव च मध्यस्थेनापि प्रकारान्तरेणाङ्गीकृतः । “लौकिकदिप्पणे वदा काचित्तिथिः क्षीणेति निर्दिश्यते तदा तस्यास्सूर्योदयस्पर्शित्वमेव नास्ति । तदभावाच्चौदयिकीत्वासम्भवः । न च क्षीणतिथिगतमाराधनं क्षीयते । कथं नाम तादृशी क्षीणा तिथिरौदयिकी स्यादिति विचार्यमाणे” इत्यादिकं कथयन् मध्यस्थः पर्वतिथेरौदयिकीत्वसम्पादन एव खलु प्रयतमानो दृश्यते । अग्रे च तदेव महता प्रयत्नेन साधयत्यपि “औदयिक्येवाष्टमी भवती" त्यादिना । एवं पूर्वमाचार्यश्रीसागरानन्दसूरिमतं महताऽऽडम्बरेण खण्डयन् अन्ततस्तदेव प्रकारान्तरेण साधयन् मध्यस्थः स्नुषाश्वशून्यायमनुसरति स्मारयति च प्रभाकरमतखण्डनावसरे शास्त्रदीपिकाकारीयं वचनमिदम्-“यदेवास्मदभिप्रेतं विधेर्नियमार्थत्वं महता प्रयत्नेन भवद्भिर्दूषितं तदेव भवद्भिरपि अनन्यगतिकत्वादाश्रयणीयमापन्नम्” इति । अतो विषयेऽत्र मध्यस्थोक्तिर्दुरुक्तिरेव । एवं "क्षये पूर्वा तिथिः कार्या" इत्यस्य मीमांसाशास्त्रानुगता व्याख्यां विधाय "वृद्धौ कार्या तथोत्तरा" इत्यस्यांशस्य तथैव व्याख्यां प्रदर्शयिष्यामः कस्याश्चित् पर्वतिथेर्दिनद्वयोदयव्यापिवरूपवृद्धौ टिप्पणे दृष्टायां उत्तरा द्वितीयदिनीयोदयस्पर्शिन्येमौदयिकी कार्या, न पूर्वेति । अनेन वचनेन पूर्वस्या औदयिकीत्वं परिसंख्यायते । सर्वत्र ह्यौदयिक्या एवाराधनाङ्गत्वं विहितम् । प्रकृते दिनद्वयेऽपि पर्वतिथिरौदयिकी भवति । दिनद्वये त्वाराधनं न भवितुमर्हति । आराधनाङ्गत्वेन तिथेविधानात् आराधनस्य शा.ज.प.२ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74