Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 14
________________ जयपताका] वद्विकृतिः कर्तव्या" इति अतिदेशशास्त्रेणातिदिष्टत्वात् । नापि कर्मकालिकमुष्णीषधारणम् । तस्यापि तत एव प्राप्तत्वात् । किन्तु विशेषणीभूतं उष्णीषगतं लौहित्यं परमप्राप्तत्वाद्विधीयते । अतश्च विशिष्टविषयोऽपि विधिः प्राप्ताप्राप्तविवेकन्यायेन लौहित्यमात्रे पर्यवस्यतीति निर्णीतं पूर्वमीमांसायाम् । तद्वदेवात्रापि वक्तव्यम् । एवं च कलागता या सप्तमीसंख्या सा सप्तमीसंख्या न भवति, किन्तु अष्टमी सेति विधिरवबोधयतीत्यभ्युपगन्तव्यम् । कथं तत् सङ्गच्छताम् ? प्रत्यक्षतो ज्योतिश्शास्त्रतो वाऽवगम्यमानस्य वस्तुनः केवलं विधिना प्रलपितुमन्यथयितुं वाऽशक्यत्वात् । __ एवं च यन्मध्यस्थेन निर्णयपत्रे षोडशपृष्ठ उक्तम्-"क्षीणाष्टम्यादितिथिः पूर्वस्यां सप्तम्यादौ विधीयत इति,” एवं द्वाविंशतिपृष्ठे निगमनं निर्णयश्चेति शीर्षकस्याधस्तात्-"तिथिक्षये तु ताहशतिथेरत्यन्तमप्राप्तौ अपूर्वविधिविधायकेन "क्षये पूर्वा तिथिः कार्या" इति शास्त्रेण क्षीणायास्तिथेः पूर्वस्यां स्थापनं क्रियते" इति च, तदसङ्गतम् । मीमांसाप्रणालीविरुद्धं च । न हि मीमांसासरणौ कुत्रापि दृष्टोऽयं राद्धान्तो यदेकस्यां तिथौ तिथ्यन्तरं विधीयते स्थाप्यते वा विधिना । अतस्सप्तम्यामष्टमीत्वं स्थाप्यत इत्यप्यसङ्गतमेव । .. किश्च किमिदमुच्यते-तत्र तत्र मध्यस्थेन 'अपूर्वविधिविधायकेनेति । "क्षये पूर्वा” इति वचनं अष्टम्यादितिथिविधायक वा अपूर्वविधेर्विधायकं वेति मध्यस्थं प्रष्टुमभिलषामो वयम् , उभयमपि । अत एव मयोभयमप्युच्यते-अष्टम्यादितिथिर्विधीयत इति, 'अपूर्वविधिविधायकेन' इति च, इति स यदि प्रत्युत्तरयेत् तर्हि तं प्रतीदमेव वक्तुं प्रभवामो वयम्-अहो महत् कौशलं प्रकटितम् । अहो मीमांसाशास्त्रस्य परस्मिन् पारे प्रतिष्ठित आत्मा । अहो वाक्यार्थवर्णनचातुरी विद्वन्मनोरञ्जनीति । यतो नवीनोऽयं पन्था अनेनैवाविष्कृतो यत्परस्परमसम्बद्धमर्थ Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74