Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri

View full book text
Previous | Next

Page 10
________________ श्रीशासनजयपताका। “तिथिवृद्धिक्षयविषयकव्यवस्थापत्रम्" __ श्रीमद्भगवजिनसम्प्रदायानुवर्तिनोः जैनाचार्ययोर्विद्वत्प्रकाण्डयोः श्रीमदाचार्यसागरानन्दसूरिश्रीविजयरामचन्द्रसूरिमहोदययोः १९९२, १९९३ वैक्रमसंवत्सरत आरभ्य पर्वतिथीनां वृद्धिक्षयविषये मतभेदस्समजनि । उभावपि तावाचार्यवयौँ "क्षये पूर्वा तिथिः कार्या, वृद्धो कार्या तथोत्तरा” इति वाचकमुख्यजैनसम्प्रदायाचार्यश्रीमदुमास्वातिवचःप्रघोषत्वेन प्रसिद्धिं गतं पद्यार्धमवलम्ब्य तदर्थविषये विभिन्नाभिप्रायावभूताम् । तत्र तत्तदनुयायी जैनसः स्वस्वाचार्यमतानुसारेण तत्तत्पतिथ्याराधनादिकं प्रावततानुष्ठातुम् । तेनानुष्ठाने द्वैविध्यं जातम् । तद्वशाच्च जैनसद्देऽपि द्वैविध्यमुदभूत् । विशेषतःप्रसतु च तदारब्धम् । तेन च जैनसङ्घस्य हानि मन्वानास्तन्मतस्थास्तत्तदनुयायिन इतरेऽपि च तयोराचार्यवर्ययोरैकमत्यसम्पादने बहु प्रायतन्त । परं त उभयेऽप्याचार्याः स्वं स्वं मतमेव साधु शास्त्रानुगतं चेति मन्वाना यदा नैकमत्याय स्पृहयन्ति स्म तदा स्वं स्वं मतं विलिख्य दातुं प्रार्थितास्ते तथैवाकुर्वन् । तत् परीक्ष्य तत्र शास्त्रानुगतं निर्णयं दातुं राजनगरस्थजैनसङ्घप्रधानपुरुषेष्वन्यतमैमध्यस्थः कश्चिन्नियोजितः । स च प्रमाणोपन्यस्तशास्त्राणामप्रामाण्यसिद्धत्वमाभासत्वं च प्रलप्य स्वमनीषानुसारेण निर्णय कञ्चन विधाय तं पुरतोऽस्थापयत्। '. निर्णयपत्रे च तस्मिन् वचन पूर्वापरविरोधः, क्वचित्सामाचारीविरोधः, कुत्रचिद्बाधितत्वं, अशास्त्रीयताबाहुल्यं चेत्यादयो बहवो दोषास्समदृश्यन्त । तेन च निर्णये तत्र सन्दिहानमनसो धर्मविप्लवभीरवो बहवस्तत्सम्प्रदायानुसारिणः कमपि Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 8 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74