Book Title: Shasan Jay Pataka
Author(s): Zaverchand Ramchand Zaveri
Publisher: Zaverchand Ramchand Zaveri
View full book text
________________
( २ )
[शासनविषयं निश्चेतुं तदनुसारेण चानुष्ठातुमपारयिष्णवस्तत्र तथ्यातथ्यत्वनिर्णयायास्माकं पुरतस्समुपस्थिताः । वयं तन्निर्णयपत्रमामूलचूलं नैकशोऽवलोक्य, अनुशील्य च जैनागमान् , तत्सामाचारी च, अनुसृत्य च पूर्वमीमांसापद्धति विचारपूर्वकमधोनिर्दिष्टया प्रणाल्या व्यवस्थापयामः
तत्राऽऽदौ निर्णयपत्रस्वरूपं विचारयामः । विचार्यमाणे च तस्मिन् तत्र बहवो दोषा अधोनिर्दिष्टास्समुन्मिपन्ति । तथा हि__ "क्षये पूर्वा तिथिः कार्या, वृद्धौ कार्या तथोत्तरा" इत्युमास्वातिवचःप्रघोषत्वेन जैनसङ्के प्रसिद्धिं गतं श्लोकार्धमिदं चतुर्वर्गचिन्तामणौ (हेमाद्रौ) शिवरहस्यसौरपुराणवचनत्वेनोद्धृतम् । तत्रैवं पठ्यते-"क्षये पूर्वा तु कर्तव्या, वृद्धौ कार्या तथोत्तरा । तिथेस्तस्यास्तत्क्षणायाः, क्षयवृद्धी न कारणम्" ॥१॥ इति । अर्वाचीना अपि निबन्धारो विष्णुभट्टप्रभृतयस्तथैव तदुद्धरन्ति । उमास्वातिभिरपि प्रघोषितम् । अन्यैरपि जैनाचार्यैस्तथैवोररीकृतम् । अतश्च सर्वसम्प्रदायसिद्धप्रामाण्यं वचनमिदमतिनिर्विवादं सिद्धे यन्मध्यस्थेन-“तदर्थमेव च प्रायो वाचकमुख्यैराचार्योमास्वातिभिः सकलजैनशाखोपशाखाभिमतग्रन्थरचनाधुरीणैः "क्षये पूर्वा तिथि: कार्या, वृद्धौ कार्या तथोत्तरा" इत्येवं प्रकारकं शास्त्रं संग्रथितमिति नो मतिः” इति वचनस्यास्य आचार्यश्रीमदुमास्वातिरचितत्वं स्वमनीषाबलेन कथितं तन्न केवलं निष्प्रमाणकं, बाधितमपीति वयमाशास्महे ।
इदानी कोऽर्थो वचनस्यास्येति विमृशामः-तत्र मध्यस्थेन निर्णयपत्रस्य षोडशपृष्ठे-“उभयेऽप्याचार्या आराधनार्थमौदयिकीमेव तिथिमभ्युपगच्छन्ति शास्त्रप्रामाण्यात् । तच्च शास्त्रमेवंविधं श्राद्धविधिप्रकरणस्थम्-"तिथिश्च प्रातः प्रत्याख्यानवेलायां या स्यात् सा प्रमाणम्" । इति, प्रत्याख्यानवेला च सूर्योदयसमयः । एतादृशी सूर्योदयस्पर्शिन्येव तिथिरौदयिकीत्यु: Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 9 10 11 12 13 14 15 16 17 18 19 20 21 22 23 24 25 26 27 28 29 30 31 32 33 34 35 36 37 38 39 40 41 42 43 44 45 46 47 48 49 50 51 52 53 54 55 56 57 58 59 60 61 62 63 64 65 66 67 68 69 70 71 72 73 74