Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 302
________________ शान्तिनायचरित्रम् । ॥ १४९॥ प्रस्ताव *.XXXXXXXXXXXXXXXESXS जनकस्योपदेशेन सोऽथ गुर्वन्तिकं गतः । श्राद्धव्रतानि जग्राह परिग्रहमितिं तु न ॥६१६ ॥ कलासु रसिकः सोऽथ नो विषयेष्वरज्यत । श्रेष्ठिन्या भणितः श्रेष्ठी तं निरीक्ष्य तथाविधम् ॥६१७ ॥ आवयोस्तनयो नाथ ! दृश्यते निःस्पृहो यतः । तत्त्वं तथा कुरु यथा विषयैषी भवेदयम् ॥ ६१८ ।। श्रेष्ठयूचे मेदृशं वादीरभ्यस्तेषु भवे भवे । भावेषु स्वयमेवाऽयं प्रायः प्राणी प्रवर्तते ॥६१९ ॥ तथाऽप्यत्याग्रहेणाऽस्याः श्रेष्ठिना निजनन्दनः । दुर्ललितानां पटले क्षिप्तौ वैदग्ध्यहेतवे ॥२०॥ विस्मारितकलाभ्यासः स तैः कौतुकदर्शनात् । नीतः कामपताकाया वेश्यायाः सदनेऽन्यदा ॥ ६२१ ॥ संभ्रान्तया तया सोऽथाऽक्या च स्वागतोक्तिभिः।आसनस्य च दानेन धनवानिति पूजितः ॥ ६२२ ॥ उपविष्टश्च तत्राऽयं मित्राणामुपदेशतः । प्रारब्धा चाऽजया गोष्ठी सर्वभाषाविदग्धया ॥६२३ ॥ तद्वाक्यरचनाक्षिप्तं तं विज्ञाय शनैः शनैः । जग्मुनिज निजं स्थान पापमित्रा इमेऽखिलाः ॥ ६२४ ॥ तथा तया रञ्जितोऽसौ यथा तन्मन्दिरान हि । निःससार धनं मातापितरौ प्रेषयतःस्म च ॥ ६२५॥ तत्राऽस्थात् षोडशाब्दानि सुलसस्तस्य तौ पुनः । संस्थितौ पितरौ भार्या तथैव प्रेषयद्धनम् ॥ ६२६ ॥ साथ संप्रेषयामासाऽलङ्कारानिष्ठिते धने । अक्का तानार्पयत्तस्याः सहस्रं रूपकांस्तथा ॥६२७॥ भणिताऽथ तया कामपताका पुत्रि ते पतिः । संजातो गतविभवस्तत्परित्यज्यतामयम् ॥६२८॥ १ थाभियानस्वागतोक्तिभिः इत्यपि । २ मातृतातौ इति साधुः । ३ मृतौ । ४ क्षीणे। SEXKXXXXXXXXXXXXXXXXXXX Pan १४९।।

Loading...

Page Navigation
1 ... 300 301 302 303 304 305 306 307 308 309 310 311 312 313 314 315 316 317 318 319 320 321 322 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381