Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 365
________________ SEEEEEEEEEEEEE. ३१ जल्पुस्ते न तस्येदृग्धीप्रपञ्चो भविष्यति । येनाऽसौ बालको मुग्धोऽप्रगल्भवचनस्तथा ॥ १४५० ॥ जगाद कुट्टिनी चाल इत्यवज्ञाऽत्र नोचिता । बालोऽपि स्यात् सुधीः कश्चित्कश्चिद्वृद्धोऽप्यपण्डितः ॥ १४५१ ॥ अन्यच्च - धूर्तलोकोचितमिदं वेत्ति सर्वोऽपि पत्तनम् । स एवाऽत्र समायाति यस्य स्याच्छेमुषीबलम्॥ १४५२ ॥ संजाते भवतां लाभे भवेल्लाभो ममाऽपि भोः । न ह्यात्मा: प्रीणनीयोऽयं परं व्यर्थमनोरथैः ॥ १४५३ ॥ इत्युक्तास्ते ययुः स्वौकः सोऽथ शिल्पी समागतः । विप्रेकृष्टोपविष्ट:- सन्नित्यूचे विकसन्मुखः ॥ १४५४ ॥ अक्काद्य श्रेष्ठिनः पुत्रः कश्चिदत्राययौ पुरे । अर्पितं मयका तस्योपानद्युग्मं मनोहरम् ।। १४५५ ॥ करिष्यामि प्रहृष्टं त्वामित्युक्तोऽस्म्यमुना ततः । गृहीते तस्य सर्वस्वे भाविनी मे प्रहृष्टता ॥ १४५६ ॥ ततोऽहमीदृशं वार्तामागां तव निवेदितुम् । तवाऽपि भविता भागस्तद्वित्तस्याऽम्बिके ! यतः || १४५७ ॥ अक्काsवोचदरे कौरो ! स्वानुरूपो मनोरथः । कर्तव्यः पुरुषेणेह तल्लो (ला)भः का तवेदृशः १ ।। १४५८ ॥ नरेन्द्रतनयोत्पत्ति निवेद्य त्वामसौ यदा । हृष्टो-नो वेति वक्ता भोस्तदा ते कीदृशी गतिः १ ॥ १४५९ ॥ 'ययौ सोऽपि तताऽऽगाद् द्यूतकारः स एकदृक्। सोऽप्याऽऽत्मधूर्ततावात कुट्टिन्यग्रे न्यवेदयत् ।। १४६० ॥ विहस्य यमघण्टोचे तवाsहो कूटसूत्रणा । परं तन्न कृतं साधु दत्तं स्वं तस्य यवा ॥ १४६१ ॥ सोऽब्रवीत्तद्धनादानसत्यङ्कार इवाऽर्पितम् । मया हि स्वधनं तस्य तत्त्वं वक्षीदृशं कथम् १ १- बुद्धिबलम् । २ दूरमुपविष्टः । ३ शिल्पिन् । ४ कूटरचना | ॥ १४६२ ॥ ****

Loading...

Page Navigation
1 ... 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381