Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 369
________________ . . उल्लंध्य सर्वमशुभं तत्प्रभावेणं देहभृत । पुनरानीयते-धर्ममार्गे जन्मक्षिताविव ॥ १५०४॥ इत्याधुपनयः सर्वो यथायोग मनीषिभिः। करणीयो धर्मविधिर्धर्मपुष्टिविधित्सया । ॥१५०५॥ ॥ इति रत्नचूडकथा ।। कृता गणधरेणैवं प्रवरा धर्मदेशना । कथिता द्वादशाङ्गीच या स्वयं तेन निर्मिता ॥१५०६॥ साधूनां च दशविधा सामाचारी प्रकाशिता । तेषामशेषकृत्यं च श्रुतकेवलिनाऽमुना ॥१५०७॥ इति शान्तिजिनवरो-विजहार महीतले । भव्याम्बुजवनं नित्यं सरवत्प्रतिबोधयन् ॥१५०८॥ केचिद्भगवतः पार्श्वे प्रव्रज्यां जगृहुर्जनाः । गृहस्थधर्म केचिच शुभभावात्प्रपेदिरे ॥१५०९ ॥ केचनाऽविरतसम्यग्दृष्टयो भद्रकाः परे - संजायन्ते स्म भगवठ्ठीशान्तिप्रतिबोधिताः ॥१५१० ॥ सर्वस्याऽपि तमो नएमुदिते जिनभास्करे। कौशिकानामिवाऽन्धत्वमभव्यानामभूच तत् ॥१५११॥ वह्निनाऽपि न सिध्यन्ति यथा ककटुकाः कणाः। तथा सिद्धिरमव्यानां जिनेनाऽपिन जायते ॥ १५१२ ॥ यथोपरक्षितौ धान्यं न स्यावृष्टेऽपि नीरदे । बोधो न स्यादभव्यानां जिनदेशनया तथा ॥ १५१३॥ यत्र यत्र जनपदे-श्रीशान्तिर्व्यहरतु प्रभुः । सर्वदुरितोपशान्तिस्तत्र तत्राऽभवजने ॥१५१४ ॥ नाऽभूवन योजनशतमध्ये विहरति प्रभौ । दुर्भिक्षडमरादीनि पीडाकारीणि देहिनाम् ॥१५१५॥ फलपुष्पाकुला वृक्षा,वसुधा.सुखसञ्चरा । पञ्चविंशतियोजन्यामभूदेवं जिनागमे ॥१५१६॥

Loading...

Page Navigation
1 ... 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381