Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay
View full book text
________________
प्रशस्ताः शकुना यानेनुकूलपवनस्तथा । उत्साहो मनसश्चैतत्सर्व लाभस्य सूचकम् ॥१३९९ ॥ ततो यानात्समुत्तीर्य प्रसन्नवदनाम्बुजः । निवासमकरोदेलाकूले श्रेष्ठिसुतोऽथ सः ॥१४००॥ तत्र चाऽऽनाययामास भाण्डं कर्मकरैस्तथा । ददौ शुल्कधनं देयं राजपञ्चकुलस्य यत् ॥१४०१॥ आययुर्वणिजस्तत्र चत्वारो नगरान्तरात् । ते रत्नचूडमित्यूचुः स्वागतप्रश्नपूर्वकम् ॥१४०२॥ श्रेष्ठिपुत्र! यदत्र त्वं मुक्त्वाऽन्यस्थानमागतः । तत्साधु विदधे येन वयं ते स्वजनाः किल ॥ १४०३॥ ग्रहीष्यामो वयं सर्व तावकीनं क्रयाणकम् । यतो भावी तवाऽऽयासः कुर्वतः क्रयविक्रयम् ॥१४०४॥ इदमस्य हि मूल्यं यद्वस्तुभिस्त्वयकोदितैः । यानं ते पूरयिष्यामो गच्छतो नगरं निजम् ॥१४०५॥ एवमस्त्विति तेनोक्ते सर्व तस्य क्रयाणकम् । विभज्य स्वस्वगेहेषु निन्ये तैः कूटबुद्धिभिः ॥ १४०६॥ ततः पदातिसंयुक्तो वस्त्राद्याडम्बरान्वितः । स चचाल पुरस्यान्तर्द्रष्टुमन्यायभूपतिम् ॥१४०७॥ कारुरत्रान्तरे कश्चिदुपानयुगलं वरम् । तस्योपढौकयामास स्वर्णरूप्यादिमण्डितम् ॥१४०८ ॥ दापयित्वाऽथ ताम्बूलं तस्मै श्रेष्ठिसुतोऽवदत् । करिष्ये त्वामहं हृष्टमित्युक्त्वा चाऽग्रतोगमत् ॥ १४०९॥ एकाक्षः कितवः कश्चिदथो रत्नाकरात्मजम् । इत्युवाच सहस्रेण द्रव्यस्य मयका किल ॥१४१०॥ स्त्रनेत्रं त्वरिपतः पार्थे मुक्तं ग्रहणकेऽस्ति भोः। त्वत्तोऽहं तद्ग्रहीष्यामि गृहाण त्वं तु तद्धनम्॥ १४११॥ (युग्मन) इत्युदित्वाऽऽर्पयदसौ रत्नचूडस्य तद्धनम् । दध्यो सोऽथाऽघटमानं वाक्यमेष वदत्यहो। ॥१४१२॥

Page Navigation
1 ... 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381