Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 355
________________ ॥ १३१९ ॥ ॥ १३२० ॥ ॥ १३२१ ॥ ॥ १३२२ ॥ ॥ तृतीयो जीविताशंसाप्रयोगः स च जायते । निरीक्ष्य महिमां स्वस्य क्रियमाणां वृ॑षार्थिमिः ॥ १३१८ ॥ चतुर्थी मरणाशंसाप्रयोगोऽनशने सति । क्षुधापीडितगात्रस्याऽसहिष्णोः संप्रजायते पञ्चमश्च कामभोगाशंसासंज्ञो निवेदितः । शब्दरूपरसाः कामो गन्धस्पर्शो तथाऽपरौ संलेखनाया विषये दृष्टान्तः कथितः पुरा । सुलसस्य कथायां सुश्रावको जिनशेखरः एवं संलेखनायुक्तं धर्म शान्तिजिनोदितम् । आकर्ण्यामृतसिक्तेव बभ्रुव सकला सभा अत्रान्तरे समुत्थाय चक्रायुधमहीपतिः । नत्वा विज्ञपयामास प्रभुमेवं कृताञ्जलिः समस्तसंशयध्वान्तनिर्नाशनदिवाकर ।। त्र्यैलोक्यवन्दित ! श्रीमच्छान्तिनाथ ! नमोऽस्तु ते ॥ दुष्कर्म निगडान् भङ्क्त्वा रागद्वेषौ तथाऽप्यरी । भवगुप्तिगृहाचं मामरं निःसारय प्रभो ! शश्वज्जन्मजरामृत्युवह्रिदीप्ताद्भवौकसः । दीक्षाहस्तावलम्बेन निस्तारय जिनेश ! माम् ॥ पुत्रप्रदत्तराज्योऽसौ पञ्चत्रिंशन्नृपान्वितः । दीक्षितोऽथ जिनेन्द्रेण चक्रायुधधरापतिः ततः पृच्छां करोति स्म प्रभो ! किं तत्त्वमित्यसौ । उत्पत्तिरिति तत्त्वं तु समाचख्यौ जिनेश्वरः एवं विचिन्तयामास गत्वैकान्ते स बुद्धिमान् । उत्पद्यन्तेऽनुसमयं जीवा नारकिकादयः एवमुत्पद्यमानास्ते जन्तवो भुवनत्रये । कथं भवन्ति चेदन्या गतिः क्वापि भवेन्न हि ? धर्मार्थिभिः । ॥ ॥ ॥ ॥ ॥ १३२३ ॥ १३२४ ॥ १३२५ ॥ १३२६ ॥ १३२७ ॥ १३२८ ॥ १३२९ ॥ १३३० ॥

Loading...

Page Navigation
1 ... 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381