Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 356
________________ शान्तिनापचरित्रम् ॥ १७६ ॥ • . XXXXXXXXXXXXXXXXXXXX8: पुनः पप्रच्छ भगवन् ! किं तच्चमिति राड् यतेः। विगमस्तसमित्याख्यत्तस्मै च त्रिजगद्गुरुः॥ १३३१ ।। पुनः सदध्यौच सर्वविगमे शून्यता भवेत् । किं तत्वमिति भूयोऽपि ततः पप्रच्छ तीर्थपम् ॥१३३२ ॥ स्थितिस्तचमिति पुनर्जिनेन कथिते सति । जीवस्वरूपमखिलं ततो विज्ञातवानसौ त्रिपद्या अनुसारेण द्वादशाङ्गानि स क्षणात् । विदधे गाढप्रज्ञावानेवमन्येऽपि तेऽखिलाः ॥ १३३४॥ द्वादशाङ्गी विधायाऽगुस्ते सर्वे जिनसन्निधौ । तद्विज्ञायाऽऽसनवरादुत्तस्थौ भगवानपि ॥१३३५॥ अत्रान्तरे सहस्राक्षः स्थालं सद्गन्धपूरितम् । समादाय पुरस्तस्थौ शान्तिनाथजिनेशितुः ॥ १३३६ ॥ गन्धान समस्तसङ्घस्यार्पयामास जिनेश्वरः । प्रदक्षिणात्रयं ते च ददिरे परितः प्रभुम् ॥१३३७॥ गन्धाँस्तदुत्तमाङ्गेषु ससङ्घोऽपि जिनोऽक्षिपत् । तेषां गणधरपदस्थापनैव विनिर्मिता ॥१३३८॥ दीक्षिता जिननाथेन बहवः पुरुषाः स्त्रियः । साधुसाध्वीपरीवारस्ततोऽस्य समजायत ॥१३३९॥ यतिधर्मासमर्था ये पुरुषा महिलास्तथा । श्रावका श्राविकाश्चापि जज्ञिरे ते जिनान्तिके ॥ १३४० ॥ एवं चतुर्विधः सङ्घः समुत्पन्नो जगद्गुरोः । आये समवसरणे शरणे भव्यदेहिनाम् ॥१३४१॥ पौरुष्यन्ते समुत्थाय विशश्राम जिनेश्वरम् । गत्वा द्वितीयप्राकारमध्यस्थे देवछन्दके ॥१३४२॥ पादपीठे जिनेन्द्रस्य निषण्णः प्रथमो गणी। चक्रे द्वितीयपौरुष्यां व्याख्यान सदसः पुरः॥१३४३ ॥ जैनधर्मस्थिरीकारकारिणीमपहारिणीम् । सङ्घस्य कथयामास सोऽन्तरङ्गकथामिमाम् ॥१३४४॥

Loading...

Page Navigation
1 ... 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381