Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 328
________________ शान्तिना: पचरित्रम् ॥१६२॥ प्रस्ताव ज्ञात्वा विनिश्चयं तस्य वयस्यः स गृहं गतः । प्रययौ गङ्गादत्तश्च सार्थमध्ये परेद्यवि ॥९६०॥ दृष्टं क्रयाणकं तेन दैवादक्षतमेव तत् । विक्रीतं च तदादाय महालाभो बभूव च ॥९६१॥ सोऽथ दध्यौ प्रभावोऽयं धर्मस्यैव ततो मया । विनियोज्यमिदं वित्तं ध्रुवं देवगृहादिषु ॥९६२ ।। विचिन्त्यैवमथो तेन जिनपूजाः प्रवर्तिताः । सकलस्यापि संघस्य दत्तं दानं च भक्तितः ॥९६३ ।। एवं धर्मोद्यमं कृत्वा मृत्वाऽन्तेऽनशनादिना । स बभूवाऽमरः पश्चात्क्रमयोगेन सेत्स्यति ॥ ९६४ ॥ ॥इति देशावकाशिके गङ्गादत्तकथा ॥ देशावकाशिकमिदं सदृष्टांतं निवेदितम् । कथयामि तवेदानीममलं पौपधव्रतम् ॥९६५॥ क्रियते यच्चतुष्पयाँ धर्मे पोषं दधाति यः। स भवेत् पौपधो राजश्चतुर्धा परिकीर्तितः ॥९६६॥ आहारपौषधो द्वेधा सर्वतो देशतस्तथा । आधश्चतुर्विधाहारप्रत्याख्याने प्रजायते ॥ ९६७ ॥ त्रिधाऽऽहारोपवासे वाऽचामाम्लादितपस्सुवा ।प्रत्याख्याने समस्तेऽपि देशतः पौषधो भवेत् ॥९६८॥ द्वितीयो देहसत्काराभिधो भेदोत्र कीर्तितः । सर्वशारीरसत्कारवर्जनात् सर्वतो भवेत् ॥९६९ ॥ विज्ञातव्यो देशतश्च सोऽस्नानकरणादिकः । तृतीयो ब्रह्मचर्यस्य पौपधो द्विविधश्च सः ॥९७०॥ सर्वतः सर्वथा स्त्रीणां करस्पादिवर्जनम् । देशतश्च पुनस्तासां संभोगस्यैव वर्जनम् ॥९७१ ॥ अव्यापारश्चतुर्थः स्यात् पौषधः स च सर्वतः । सर्वव्यापारहानिः स्यादेकत्यागे तु देशतः ॥ ९७२ ॥ ॥१६२॥

Loading...

Page Navigation
1 ... 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381