Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 345
________________ तस्याऽऽसीत् सुव्रतानाम्नी श्राविका वरगेहिनी। तावपालयतां गेहवासं धर्मपरायणौ ॥११८५॥ अन्येधुरष्टमीषने वीरदेवः स पौषधम् । जग्राह पारणे चैवं चिन्तयामास चेतसि ॥ ११८६॥ धन्यास्ते पर्वदिवसे ये कृत्वा वरपौषधम् । तत्पारणे सुसाधुभ्यो दानं ददाति भाविनः ॥ ११८७॥ द्वारावलोकनं सोज्थ कुर्वन्नमवर्जितिं । ददर्शाऽऽगच्छदावासे साधुयुग्मं तपःकृशम् ॥ ११८८ ॥ कृत्वाऽभिगमनं तस्य नत्वा च चरणद्वयम् । सद्भक्त्या भक्तपानेन वीरस्तत् प्रत्यलाभयत् ॥ ११८९ ॥ स्तोकभूमिमनुव्रज्य तौ नत्वाच मुनी पुनः । स्ववेश्मन्याययौ वीरो धन्योऽहमिति चिन्तयन्।। ११९०॥ दध्यौ सा सुव्रताऽप्येवं कृतार्थोऽयं पतिर्मम । दत्तं येन सुसाधुभ्यां दानं श्रद्धातिरेकिणा ॥ ११९१ ॥ एवं विशुद्धभावेन प्रकुर्वत्यानुमोदनाम् । सुपात्रदानपुण्यस्य तयाऽप्यंश उपाजितः ॥११९२ ॥ एवं तौ दम्पती धन्यौ दचा दानमनेकधा । पालयित्वा सुसम्यक्त्वौ चिरं च श्रावकबतम् ॥ ११९३ ॥ कृत्वान्ते चाशनत्यागं विपद्य च समाधिना । ईशानकल्पे संजातावमरौ सुखशालिनौ ॥११९४ ।। युग्मम् ॥ वीरदेवस्य जीवोऽथ देवलोकात परिच्युतः । प्रचण्डो मेदिनीपाल: शूरपालो भवानभूत् ॥ ११९५ ॥ बभूव सुव्रताजीवो दिवश्युत्वा तव प्रिया । एषा शीलमतीनाम्नी सुमनोरथशालिनी ॥ ११९६ ॥ हहो पूर्वभवे दत्तं यधुवाभ्यां विहायतम् । तेन राज्यमिदं लब्धं विना क्लेशेन भूतले ॥ ११९७ ॥ १ दानम् ।

Loading...

Page Navigation
1 ... 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381