Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 346
________________ शान्तिनायचरित्रम् ॥ १७१ ॥ षष्ठः प्रस्तावः ततश्च जातिस्मरणं नृपोऽवाप स सप्रियः । प्रत्यक्षमिव तत्पूर्वभववृत्तं ददर्श च ॥११९८॥ चन्द्रपालं निजसुतं राज्ये च (ऽथ) विनिवेश्य सः।सतातः सप्रियो दीक्षांगुरोस्तस्यान्तिकेऽग्रहीत्॥११९९॥ विशुद्धां पालयित्वा तां कृत्वा च विविधं तपः । ययावात्मतृतीयोऽपि समोक्ष प्राप्तकेवलः ॥ १२०० ॥ ॥ इत्यतिथिसंविभागते शूरपालनृपकथा ॥ अन्यच्च सुपात्रदानजाद्धर्मादिहलोकेऽपि मानवः। अभीष्टार्थमवाप्नोति व्याघ्रः कोडम्बिको यथा ॥ १२०१॥ संजातसर्वतोभद्रे पारिभद्रे पुरे वरे । बभूव क्षत्रियो जात्या व्याघ्रनामा कृषीवल: ॥१२०२॥ सेवावृत्ति परित्यज्य कुर्वतोऽप्यस्य कर्षणम् । समपद्यत नो वित्तं कृतदारिद्यधर्षणम् ॥१२०३ ॥ तद्भार्या विजयानाम्नी डिम्मरूपमसूयत । प्रतिवर्ष प्रसन्नस्य दारिद्यस्य प्रभावतः ॥१२०४॥ सोऽन्यदा शिथिलारंभो भणितोभार्यया तया। निश्चिन्त इव हे कान्त ! निर्व्यापारः कथं त्वसि?॥१२०५॥ सोऽवदन्मन्दभाग्यस्य व्यापाराः फलदा न मे । नृपसेवाकर्षणाद्यास्तत्प्रिये! किं करोम्यहम् ॥ १२०६ ॥ पुनरूचे तया सोऽथ भाग्यहीनोऽसि यद्यपि । तथापि स्वोचितं कान्त ! व्यापारं कुरु कञ्चन।। १२०७॥ सुवस्त्राभरणादीनां शोभा दूरेऽस्तु त्वद्गृहे । भोजनस्याऽपि नो वाञ्छा पूर्णा मम कदाचन।। १२०८ ॥ इमानि डिम्मरूपाणि जेमनार्थमनेकशः । रुदन्ति वीक्ष्य किं नाम तव चेतो न दूयते? ॥१२०९ &SSESXXEXERCISEXEEEEEEXXX solu १७१॥

Loading...

Page Navigation
1 ... 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381