Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 352
________________ शान्तिनाधचरित्रम् ॥ १७४॥ प्रस्ताव ततः सा देवता व्याघ्र रत्नस्वर्णसमन्वितम् । निनाय नगरे तत्र लोकस्यैवं शशंस च ॥१२७८ ।। भो भो जना ! भवद्योग्य आनीतोऽस्ति मया प्रभुः । तमानयत पूर्मध्ये महोत्सवपुरस्सरम् ॥ १२७९॥ देवतादेशसन्तुष्टा यावत्तत्र ययुर्जनाः। तावते ददृशुर्व्याघ्रं तं स्वपत्तनवासिनम् ॥१२८०॥ ततश्च महिमा तस्य चक्रिरे ते प्रमोदिनः । पाषाणोऽपि भवेत् पूज्यो देवताधिष्ठितो यतः ॥१२८१॥ हस्तिस्कन्धाधिरूढोऽसौ यावदानीयते स्म तैः । पुरे तत्र पुरा तावद्यज्जातं तन्निवेद्यते ॥१२८२ ॥ सा तस्य गेहिनी नित्यं वणिग्धट्टाकणादिकम् । आनिनाय ततो द्रव्यं तेन लभ्यमभूद्वहु ॥ १२८३ ॥ व्याघ्रोदन्ते त्वविज्ञाते सापत्याऽप्यमुना सका । धृत्वा धरणके नीता पुरारक्षस्य मन्दिरे ॥१२८४ ॥ वृत्तान्तं तमथो ज्ञात्वा व्याघ्रण पृथिवीभुजा । दचार्थ वणिजस्तस्य सा निन्ये राजमन्दिरे ॥ १२८५॥ व्याघ्रोऽपि राजसदनं संप्राप्तो मन्त्रिपुङ्गवैः । सामन्तैरन्यलोकैश्च भक्तिपूर्व नमस्कृतः ॥१२८६ ॥ सभासीनः स सर्वेषां तेषामग्रे निजां कथाम् । कथयामास सकलां महाविस्मयकारिणीम् ॥१२८७॥ तोषयामास जायां च वस्त्रालङ्करणादिभिः । अपत्यानि च सर्वाणि स्ववार्ताख्यानपूर्वकम् ॥ १२८८ ॥ सुपात्रदानसंप्राप्तराज्यश्रीः सोऽथ भूपतिः । पुनरेव सुपात्रेभ्यो ददौ दानमनेकशः ॥१२८९ ।। अनुभूतां शरीरेण स्मरन् दुःखपरम्पराम् । स्वसंवेदनतो मैत्री चक्रेऽसौ सर्वजन्तुषु ॥१२९० ॥ ज्ञानगुप्ताभिघोऽन्येद्युस्तत्राचार्यः समाययौ । तस्य पादौ नमस्कर्तुमागाव्याघ्रमहीपतिः ॥ १२९१ ॥ ॥१७४।।

Loading...

Page Navigation
1 ... 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381