________________
शान्तिनाधचरित्रम् ॥ १७४॥
प्रस्ताव
ततः सा देवता व्याघ्र रत्नस्वर्णसमन्वितम् । निनाय नगरे तत्र लोकस्यैवं शशंस च ॥१२७८ ।। भो भो जना ! भवद्योग्य आनीतोऽस्ति मया प्रभुः । तमानयत पूर्मध्ये महोत्सवपुरस्सरम् ॥ १२७९॥ देवतादेशसन्तुष्टा यावत्तत्र ययुर्जनाः। तावते ददृशुर्व्याघ्रं तं स्वपत्तनवासिनम् ॥१२८०॥ ततश्च महिमा तस्य चक्रिरे ते प्रमोदिनः । पाषाणोऽपि भवेत् पूज्यो देवताधिष्ठितो यतः ॥१२८१॥ हस्तिस्कन्धाधिरूढोऽसौ यावदानीयते स्म तैः । पुरे तत्र पुरा तावद्यज्जातं तन्निवेद्यते ॥१२८२ ॥ सा तस्य गेहिनी नित्यं वणिग्धट्टाकणादिकम् । आनिनाय ततो द्रव्यं तेन लभ्यमभूद्वहु ॥ १२८३ ॥ व्याघ्रोदन्ते त्वविज्ञाते सापत्याऽप्यमुना सका । धृत्वा धरणके नीता पुरारक्षस्य मन्दिरे ॥१२८४ ॥ वृत्तान्तं तमथो ज्ञात्वा व्याघ्रण पृथिवीभुजा । दचार्थ वणिजस्तस्य सा निन्ये राजमन्दिरे ॥ १२८५॥ व्याघ्रोऽपि राजसदनं संप्राप्तो मन्त्रिपुङ्गवैः । सामन्तैरन्यलोकैश्च भक्तिपूर्व नमस्कृतः ॥१२८६ ॥ सभासीनः स सर्वेषां तेषामग्रे निजां कथाम् । कथयामास सकलां महाविस्मयकारिणीम् ॥१२८७॥ तोषयामास जायां च वस्त्रालङ्करणादिभिः । अपत्यानि च सर्वाणि स्ववार्ताख्यानपूर्वकम् ॥ १२८८ ॥ सुपात्रदानसंप्राप्तराज्यश्रीः सोऽथ भूपतिः । पुनरेव सुपात्रेभ्यो ददौ दानमनेकशः ॥१२८९ ।। अनुभूतां शरीरेण स्मरन् दुःखपरम्पराम् । स्वसंवेदनतो मैत्री चक्रेऽसौ सर्वजन्तुषु ॥१२९० ॥ ज्ञानगुप्ताभिघोऽन्येद्युस्तत्राचार्यः समाययौ । तस्य पादौ नमस्कर्तुमागाव्याघ्रमहीपतिः ॥ १२९१ ॥
॥१७४।।