________________
शान्तिनायचरित्रम् ॥ १७१ ॥
षष्ठः प्रस्तावः
ततश्च जातिस्मरणं नृपोऽवाप स सप्रियः । प्रत्यक्षमिव तत्पूर्वभववृत्तं ददर्श च ॥११९८॥ चन्द्रपालं निजसुतं राज्ये च (ऽथ) विनिवेश्य सः।सतातः सप्रियो दीक्षांगुरोस्तस्यान्तिकेऽग्रहीत्॥११९९॥ विशुद्धां पालयित्वा तां कृत्वा च विविधं तपः । ययावात्मतृतीयोऽपि समोक्ष प्राप्तकेवलः ॥ १२०० ॥
॥ इत्यतिथिसंविभागते शूरपालनृपकथा ॥ अन्यच्च
सुपात्रदानजाद्धर्मादिहलोकेऽपि मानवः। अभीष्टार्थमवाप्नोति व्याघ्रः कोडम्बिको यथा ॥ १२०१॥ संजातसर्वतोभद्रे पारिभद्रे पुरे वरे । बभूव क्षत्रियो जात्या व्याघ्रनामा कृषीवल: ॥१२०२॥ सेवावृत्ति परित्यज्य कुर्वतोऽप्यस्य कर्षणम् । समपद्यत नो वित्तं कृतदारिद्यधर्षणम् ॥१२०३ ॥ तद्भार्या विजयानाम्नी डिम्मरूपमसूयत । प्रतिवर्ष प्रसन्नस्य दारिद्यस्य प्रभावतः ॥१२०४॥ सोऽन्यदा शिथिलारंभो भणितोभार्यया तया। निश्चिन्त इव हे कान्त ! निर्व्यापारः कथं त्वसि?॥१२०५॥ सोऽवदन्मन्दभाग्यस्य व्यापाराः फलदा न मे । नृपसेवाकर्षणाद्यास्तत्प्रिये! किं करोम्यहम् ॥ १२०६ ॥ पुनरूचे तया सोऽथ भाग्यहीनोऽसि यद्यपि । तथापि स्वोचितं कान्त ! व्यापारं कुरु कञ्चन।। १२०७॥ सुवस्त्राभरणादीनां शोभा दूरेऽस्तु त्वद्गृहे । भोजनस्याऽपि नो वाञ्छा पूर्णा मम कदाचन।। १२०८ ॥ इमानि डिम्मरूपाणि जेमनार्थमनेकशः । रुदन्ति वीक्ष्य किं नाम तव चेतो न दूयते? ॥१२०९
&SSESXXEXERCISEXEEEEEEXXX
solu १७१॥