________________
त्वयाऽग्रे विहिता सेवा पुरस्याऽस्य महीपतेः। अधुनाऽन्यस्य कस्याऽपि भूपतेः सा विधीयताम्।। १२१०॥ तयैवं भणितः सोऽभूत्सेवावृत्तिसमुद्यतः । प्रायेण गृहिणीवाक्यं दुर्लव्यं गृहमेधिनाम् ॥१२११॥ अथाऽसौ वणिज कश्चिदित्यूचे मे कुटुम्बिनी । यद्याचते देयमस्यास्तन्ममोद्धारके त्वया ॥ १२१२ ॥ नरेन्द्रसेवया लक्ष्मीमुपाया॑ऽहमुपागतः। पूरयिष्यामि भवतः स्वप्रियायाश्च वाञ्छितम् ॥१२१३ ॥ किञ्चित्पाथेयमादाय सुमुहूर्ते ततश्च सः । वस्त्रशस्त्रादिसामग्रीसंयुक्तो निर्ययौ गृहात् ॥१२१४॥ पुरे शंखपुरे गत्वा वत्सलस्याऽनुजीविनाम् । सेवकत्वं प्रपन्नोऽसौ शूरसेनमहीपतेः ॥१२१५॥ वचसाऽऽह्लादितोऽत्यन्तमल्पदानेन चाऽमुना। व्याघ्रः सर्वात्मना सेवां चक्रे तस्य धनाशया॥ १२१६॥ कियद्भिर्वासरैर्द्रव्यं तत्सर्व तेन मक्षितम् । अन्यच्चालभमानेन विक्रीतं क्षुरिकादिकम् ॥१२१७॥ संवत्सरेऽप्यतिक्रान्ते ततः किञ्चिदनाप्नुवन् । स एवं चिन्तयामास विषादकलिताशयः ॥१२१८॥ आदावुदारवचनो निःसारोऽयं शनैः शनैः । बभूव मे महीपालः शाल्मलीपुष्पसन्निभः ॥१२१९ ॥ अस्याः कुस्वामिसेवायास्तद्वरं कर्पणं मम | वियोगः स्वकुटुम्बेन यत्र नैव प्रजायते ॥१२२०॥ निःस्वस्य गेहगमनं ह्रीकर मम यद्यपि । तथापि निष्फलारम्भः किमन्यत् प्रकरोम्यहम् ॥१२२१ ।। विचिन्त्यैवं ततः स्थानान्निासत्याऽसावशम्बलः। आगात् पन्थानमुल्लंध्य रात्रौ निजनिकेतनम् ॥ १२२२॥ १ निर्धनस्य ।