________________
शान्तिना: पचरित्रम् ॥१६२॥
प्रस्ताव
ज्ञात्वा विनिश्चयं तस्य वयस्यः स गृहं गतः । प्रययौ गङ्गादत्तश्च सार्थमध्ये परेद्यवि ॥९६०॥ दृष्टं क्रयाणकं तेन दैवादक्षतमेव तत् । विक्रीतं च तदादाय महालाभो बभूव च ॥९६१॥ सोऽथ दध्यौ प्रभावोऽयं धर्मस्यैव ततो मया । विनियोज्यमिदं वित्तं ध्रुवं देवगृहादिषु ॥९६२ ।। विचिन्त्यैवमथो तेन जिनपूजाः प्रवर्तिताः । सकलस्यापि संघस्य दत्तं दानं च भक्तितः ॥९६३ ।। एवं धर्मोद्यमं कृत्वा मृत्वाऽन्तेऽनशनादिना । स बभूवाऽमरः पश्चात्क्रमयोगेन सेत्स्यति ॥ ९६४ ॥
॥इति देशावकाशिके गङ्गादत्तकथा ॥ देशावकाशिकमिदं सदृष्टांतं निवेदितम् । कथयामि तवेदानीममलं पौपधव्रतम् ॥९६५॥ क्रियते यच्चतुष्पयाँ धर्मे पोषं दधाति यः। स भवेत् पौपधो राजश्चतुर्धा परिकीर्तितः ॥९६६॥ आहारपौषधो द्वेधा सर्वतो देशतस्तथा । आधश्चतुर्विधाहारप्रत्याख्याने प्रजायते ॥ ९६७ ॥ त्रिधाऽऽहारोपवासे वाऽचामाम्लादितपस्सुवा ।प्रत्याख्याने समस्तेऽपि देशतः पौषधो भवेत् ॥९६८॥ द्वितीयो देहसत्काराभिधो भेदोत्र कीर्तितः । सर्वशारीरसत्कारवर्जनात् सर्वतो भवेत् ॥९६९ ॥ विज्ञातव्यो देशतश्च सोऽस्नानकरणादिकः । तृतीयो ब्रह्मचर्यस्य पौपधो द्विविधश्च सः ॥९७०॥ सर्वतः सर्वथा स्त्रीणां करस्पादिवर्जनम् । देशतश्च पुनस्तासां संभोगस्यैव वर्जनम् ॥९७१ ॥ अव्यापारश्चतुर्थः स्यात् पौषधः स च सर्वतः । सर्वव्यापारहानिः स्यादेकत्यागे तु देशतः ॥ ९७२ ॥
॥१६२॥