SearchBrowseAboutContactDonate
Page Preview
Page 329
Loading...
Download File
Download File
Page Text
________________ RRIERSXXXEREXEXXXXXXXXX दृष्टान्तो जिनचन्टस्य कथ्यते पौषधवते । अनन्तवीर्यो राजाऽभूत सप्रतियाभिधे परे ॥९७३॥ श्रावको जिनचन्द्रश्च जिनधर्मे सुनिश्चलः । बभूव गेहिनी तस्य सुन्दरी सुन्दराकृतिः ॥ ९७४॥ जगृहे पौषधं तेन क्वापि पर्वदिनेऽन्यदा । मध्ये पौषधशालायाः प्रविश्य शुभचेतसा ॥ ९७५ ॥ अत्रान्तरे सहस्राक्षः प्राशंसत्तं समान्तरे । सुरैरपि न चाल्योऽयं वर्तते पौषधादिति ॥ ९७६।। तदाकण्यकगीर्वाणः कर्तुं तद्वाक्यमन्यथा । तत्समीपमुपागत्याऽकाले सूर्योदयं व्यधात् ॥९७७॥ कृत्वा तद्भगिनीरूपमूचे भ्रातः! कृते तव । आनीतमस्त्यदो भक्ष्यं तवं पारणकं कुरु ॥९७८ ॥ अनुष्ठानादिकरणेऽनुमानेन विवेद सः। कृता देवेन केनाऽपि मायेयं परिभाव्यते ॥९७९ ॥ एवं विचिन्त्य मनसा सोऽस्थान्मौनपरायणः । मित्ररूपी सुरः सोऽस्य विलेपनमढौकयत् ॥९८०॥ पुष्पाणि च सुगन्धीनि गृहाणेत्यमुनोदितः। न किञ्चिदपि जग्राह श्राद्धोऽसौ नाऽप्यभाषत ॥ ९८१ ।। पुंसकेन नीयमानां ततोऽसौ तस्य गेहिनीम् । त्रिदशो दर्शयामास तथाऽप्येष चुकोपन ॥९८२ ।। अनुकूलोपसर्गास्तान सुरः कृत्वैवमादिकान् । ततः सिंहपिशाचादीन प्रतिकूलान् व्यधात्ततः ॥ ९८३ ॥ न चुक्षोभ तथाऽप्येष दिव्यरूपोऽथ सोऽमरः । शंसन् शक्रप्रशंसां तां किं करोमीत्यभाषत ॥ ९८४॥ निरीहश्रावकस्तस्मान्न किश्चिदप्ययाचत । देवोवादीन मोघं च जायते मम दर्शनम् ॥९८५ ।। जिनचन्द्रोऽवदत्तर्हि सुरश्रेष्ठ तथा कुरु । यथाऽत्र जायते लोके शासनस्य प्रभावना ॥९८६ ॥ २८
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy