SearchBrowseAboutContactDonate
Page Preview
Page 327
Loading...
Download File
Download File
Page Text
________________ EXXXXXXXXSHES साजराचार वलित्वाऽऽगानिजं गेहं तत्र धर्मपरायणः। सप्तक्षेत्र्यां वपन वित्तं गृहवासमपालयत् ॥ ९४७॥ संलेखनां विधायाऽन्तेऽनशनेन विपद्य सः। दिवं प्राप्तस्ततश्युत्वा क्रमान्मुक्तिं गमिष्यति ॥ ९४८॥ ॥इति सामायिके सिंहश्रावककथा ॥ शिक्षाव्रतं द्वितीयं तु भवेद्देशावकाशिकम् । दिखते परिमाणस्य संक्षेपकरणादिह ॥९४९॥ सर्वव्रतानामथवा संक्षेपोन विधीयते । आनयनप्रयोगाद्याश्चाऽतिचारा इहोदिताः ॥९५०॥ एतदपि व्रतं शुद्धं विहितं सफलं भवेत् । इहलोके परलोके गङ्गदत्तगृहस्थवत् + परलोक गङ्गदत्तगृहस्थवत् ॥९५१ ॥ अत्रैव भरतक्षेत्रे पुरे शङ्खपुराभिधे । वसति स्म भुवि ख्यातो गङ्गदत्ताभिधो वणिक् ॥९५२ ॥ श्राद्धधर्मोऽन्यदा तेन गृहीतो गुरुसन्निधौ । तं द्वादशविधमथो पालयामास सोज्ज्वहम् ॥ ९५३॥ देशावकाशिकं सोऽथाऽन्यदा जग्राह शुद्धधीन मयाऽद्य विना चैत्यं निर्गन्तव्यं गृहादिति ॥ ९५४ ॥ गृहस्थितोऽसौ मित्रेण वणिजागत्य जल्पितः। यतो बहिः पुरादद्य सार्थोऽस्ति भ्रातरागतः ॥ ९५५ ॥ तदेहि त्वरितं तत्र महालाभविधायकम् । येनाऽवामेव गृह्णीवो महार्य पणितं बहु ॥९५६॥ गङ्गदत्तोऽब्रवीतत्र नैष्याम्यद्य यतो मया । गृहीतमस्ति देशावकाशिकं स्वगृहस्थितिः ॥९५७॥ प्रत्यूचेऽसौ बहुधनलामं गृह्णासि नाऽद्य किम् ?। अन्यस्मिन्नपि दिवसे करिष्यसि पुनव्रतम् ॥ ९५८॥ पुनर्गगोऽवदद्यत्र धर्महानिर्भवेत् सखे!। लाभेनापि कृतं तेन बहारंभविधायिना ॥ ९५९ ॥ BREXXXXXXXXXXXXXXXXXXX -
SR No.010541
Book TitleShantinath Charitram
Original Sutra AuthorN/A
AuthorKanchanvijay
PublisherKanchanvijay
Publication Year1940
Total Pages381
LanguageHindi, Sanskrit
ClassificationBook_Devnagari
File Size16 MB
Copyright © Jain Education International. All rights reserved. | Privacy Policy