Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 342
________________ पष्ठः शान्तिनाथचरित्रम् ॥१६९॥ प्रस्ताव भोक्तुं निमन्त्रितोऽज्येधुर्महीपालो महीभुजा। आययौ सकुटुम्बोऽपि सकाले राजमन्दिरे ॥११४४॥ कारयित्वा ततः स्नानं वस्त्राणि परिधाप्य च। यथायोग्यमलङ्कारैः सकुटुम्बोऽपि मण्डितः ॥११४५॥ महीपालस्ततो दध्यौ किमेप जगतीपतिः । करोत्यस्माकमतुलं बन्धुनामिव गौरवम् ? ॥११४६॥ यस्य पाद्यदा येन लभ्यं स्याधदिलातले । लभते निर्गुणोऽप्येष तस्य पात्तिदैव तत् ॥११४७॥ एवं विचिन्तयश्चित्ते तत्कुटुम्बमथाऽखिलम् । रम्यासनेषु राज्ञा भोजनार्थमुपवेशितम् ॥११४८ ।। न्यवेश्यन्त विचित्राणि स्थालान्यस्य पुरस्तथा । निपसाद च भूपोऽपि भोक्तुं तत्रोचितासने ॥ ११४९ ।। अत्रान्तरे नृपादिष्टा देवी शीलमती स्वयम् । विदधे शालिम्पाद्याहारस्य परिवेपणम् ॥११५० ॥ भणिता सा पुना राज्ञा चिरकालविचिन्तितान् । सफलीकुरुष्व सर्वान प्रियेऽद्य स्त्रमनोरथान् ॥ ११५१ ॥ भोजने च कृते राज्ञा महीपालो निवेशितः । सिंहासने वरेऽन्येषु भ्रातरश्च यथाक्रमम् ॥११५२ ॥ जननी भ्रातृजायाश्च यथायोग्यासनेषु च । ततो नत्वा महीपालं शूरपालनृपोऽनदत् ॥ ११५३ ॥ तात ! सोऽहं तव सुतो निर्गतो यस्तदा गृहात् । तावकीनमिदंराज्यं ततस्ते सेवकोऽस्म्यहम् ॥ ११५४॥ विज्ञायाऽपि मया त्वं यत्कारितः कर्म गर्हितम् । क्षन्तव्यः पूज्यपादःस सर्वोऽप्यविनयो मम ॥ ११५५॥ शीलमत्यपि सर्वेषां नत्वा पादानदोऽवदत् । मया संतापिता यत्तत्क्षमचं यूयमद्य मे ॥११५६ ॥ ययुष्मद्वचनेनाऽपि न मुक्तः कञ्चुको मया । तदवश्यं स्वकान्तस्य तात ! वाक्यमनुष्ठितम् ॥ ११५७॥ ॥१६९॥

Loading...

Page Navigation
1 ... 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381