Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 330
________________ षष्ठः धान्तिनाथचरित्रम् ॥ १६३ ॥ प्रस्ताव: प्रतिपद्याऽथ तद्वाक्यं स देवो जिनमन्दिरे । परिवारयुतो गत्वा व्यधादष्टाहकोत्सवम् ॥९८७ ॥ सुगन्धकुसुमैः पूजां विधाय च जिनेशितुः। ऊर्वीकृतभुजद्वन्द्वो नृत्यं चक्रे पुरोऽस्य सः ॥९८८॥ नृत्यन्तं त्रिदशं दृष्ट्वा जनः सर्वो विसिमिये । जजल्प चाहो! माहात्म्यं जिनधर्मस्य मृतले ॥ ९८९ ॥ देवोऽप्युवाच कल्पद्रचिन्तामणिसमप्रभः । जना ! जिनेन्द्रधर्मोऽयं ध्रुवं स्वर्गापवर्गदः ॥९९० ॥ तदत्र सर्वथा यत्नो विधातव्यो सुखैपिभिः । लोकोऽपि हि तथा चक्रे तद्भक्तिं प्रीतमानसः ॥ ९९१ ॥ एवं जिनेन्द्रधर्मस्य सुरः कृत्वा प्रभावनाम् । आपृच्छथ जिनचन्द्रं च सौधर्ममगमत् पुनः ॥ ९९२॥ स एप जिनचन्द्रस्ते कथितः पौषधवते । नाऽचाल्यत मनो यस्य धर्मध्यानात्सुरैरपि ॥९९३ ॥ ॥ इति पौपधनते जिनचन्द्रकथा ॥ आतथीनां संविभागो विज्ञेयं द्वादशं व्रतम् । तिथिपर्वोत्सवगणस्त्यक्तो येनेह सोऽतिथिः॥ ९९४ ॥ न्यायागतैः कल्पनीयैः सुद्रव्यैरोदनादिभिः । देशकालोचितैः श्रद्धासत्कारविधिपूर्वकम् ॥९९५ ।। संविभागोऽनगाराणां भक्त्या धर्मधियान यत् । भवेदतिथिदानं तन्महापुण्यनिवन्धनम् ॥९९६ ॥ (युग्मम् ) आतथीनां दानमेतत्सुखहेतुः प्रजायते । शूरपालनरेन्द्रस्य दत्तं पूर्वभवे यथा ॥९९७॥ चक्रायुधन पेणाऽथ पृष्टः शान्तिजिनेश्वरः । क एप शूरपालाख्यो युष्माभिः कथितः प्रभो । ॥ ९९८॥ सर्वसाधारणेनाऽथ वचसा मेघनीरवत् । तत्कथा कथयामास शान्तिनाथो जिनेश्वरः ॥९९९ ॥ ॥ १६३॥

Loading...

Page Navigation
1 ... 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381