Book Title: Shantinath Charitram
Author(s): Kanchanvijay
Publisher: Kanchanvijay

View full book text
Previous | Next

Page 325
________________ SXXXXXXXXXXXXXXEXAXEEEEXXXX श्रुत्वा तनिष्ठुरं वाक्यं तस्मै चुकुपतुर्वृषौ । प्रायेण देहिनां दुःखं नोच्यमानमपि प्रियम् ॥९२२ ॥ ततस्तेन बलीववन्येधुर्वाहितौ तथा । बभूव सुकुमारत्वादन्तस्त्रोटो यथा तयोः ॥९२३ ॥ क्षपयित्वाऽऽत्मदुष्कर्माकामनिर्जरया शुभौ । व्यन्तरौ समजायेतामनड्वाहौं विपद्य तौ ॥९२४ ॥ ज्ञात्वा समृद्धदत्तं तमात्मनोऽहितकारकम् । आगत्य चक्रतुस्तस्य शरीरे विविधा व्यथाः ॥९२५॥ जजल्पतुश्च रे पापोपदेशो वृषभौ प्रति । प्रदत्तो यस्त्वया तस्य फलं भुक्ष्वाऽधुनाऽप्यदः स्वस्य व्यन्तरतामस्य कथयामासतुश्च तौ । ततस्तौ क्षमयामास सप्रणाममसावपि ॥९२७ ॥ कोपाटोपं परित्यज्य तत्पीडामपहृत्य च । स्वस्थानं व्यन्तरावेतौ जग्मतुः सोऽप्यचिन्तयत् ॥९२८॥ रे जीवानर्थदण्डोऽयं चतुर्धाऽपि कृतस्त्वया। प्रत्येकशोऽपि संप्राप्तं दुःखं तजनितं तथा ॥९२९ ॥ ततः पार्श्वे मुनीन्द्राणां भूत्वाऽसौ श्राद्धपुङ्गया। प्रायेण च विपद्याऽन्ते कल्पेऽभूत् प्रथमे सुरः॥९३०॥ ततश्युत्वा मनुष्यत्वं संप्राप्य सुकुले क्रमात् । जीवः समृद्धदत्तस्य लप्स्यते निवृतेः सुखम् ॥९३१॥ ॥ इत्यनर्थदण्डव्रते समृद्धदत्तकथा ॥ इतः शिक्षाव्रतानि त्वं शृणु चत्वारि भूपते ! । तेषां च मध्ये प्रथमं भवेत्सामायिकवतम् ॥ ९३२॥ स्थावरत्रसजीवेषु यत्र भावो भवेत्समः । ज्ञेयं सामायिक तद्भोः! कर्तव्यं च पुनः पुनः ॥९३३ ॥ १ दन्त्रत्रोटो यथा इति साधुः। २ अनशनेन । BSISEXXXSSSXXXXXXSEXEEEEEXXXX

Loading...

Page Navigation
1 ... 323 324 325 326 327 328 329 330 331 332 333 334 335 336 337 338 339 340 341 342 343 344 345 346 347 348 349 350 351 352 353 354 355 356 357 358 359 360 361 362 363 364 365 366 367 368 369 370 371 372 373 374 375 376 377 378 379 380 381