Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
नित्यस्नानतर्पणयोः प्रयोगः।
४४९ इत्यादि व्याहृत्य न्तमुक्त्वा प्रधान होमे प्रजापति कापडपिमित्यादि सदसस्पतिं चाऽऽज्येन यक्ष्य इत्यन्त मुक्त्वा जयोपहोमे चित्तं चित्तिमित्यादि व्याहृतिहोमान्तं कृत्वा प्रजापतये काण्डर्षये स्वाहेत्यादिप्रधानाहुतीर्तुत्वा जयोपहोमादिस होमशेषं समापयेत् । नैवात्र दिन्नहोमः । ततो यजमान ऋत्विद्वारा पारायण ऋत्विजे सुवर्णगोदानवस्त्ररथाद्यन्यतमा यथाविभवं दक्षिणां दत्ताऽपूः सक्तुभिरोदनेनान्यैश्च व्यञ्जनेाह्मणापूजनार्वकं भोजयित्वा भूयसीं दत्त्वाऽग्निं संपूज्य विभूतिं धृत्वा लौकिकानो होमश्चेत्तमग्निं गच्छ गच्छेति विसृज्य प्रमादादिति विष्णुं स्मरेत् ।
इति वेदपारायणोत्सर्जनप्रयोगः ।।
अथ नित्यस्नानतर्पणयोः प्रयोगः । कर्ता प्रातरुत्थापनादि दन्तधावनान्तं नित्यविधिं कृत्वा स्नानसामग्री गृहीत्वा जलसमीपं गत्वोद्धृतजलेन मुखं पाणी पादौ च प्रक्षाल्यो. दकं स्पृष्ट्वा मलापकर्षणस्नानं कृत्वा बद्धशिखो दर्भपाणिः प्राङ्मुख आच. म्य प्राणानायम्य देशकालौ संकीर्त्य मम सकलपापक्षयपूर्वककर्माधिकारसिद्धिद्वारा श्रीपरमेश्वरप्रीत्यर्थ प्रातःस्नानमहं करिष्य इति संकल्प्य तीर्थ संप्रार्थेमं मे गङ्ग इति पाणिनोदकमावर्त्यत च सत्यं चाभीद्धादिति व्यावृता तुचेनाघमर्षणमन्त्रेण जले त्रीन्प्राणायामान्कृत्वाऽऽपो हि ष्ठेति तिसभिहिरण्यवर्णाः शुचयः पावका इति चतसृभिः पवमानः सुवर्जन इत्यनुवाकेन च सर्वमन्त्रान्त एकवारं प्राङ्मुखः सात्वा द्विराचम्य स्नानाझं तर्पणं कुर्यात् । दैवे तर्पण एकैकाञ्जलिभृषितर्पणेऽञ्जलिद्वयं पित्र्येऽ. ञ्जलित्रयम् । ब्रह्मादयो ये देवास्तान्देवांस्तर्पयामि । भूर्देवां० भुवर्देवां० सुवर्देवां० भूर्भुवः सुवर्देवांस्तर्पयामि । निवीती विश्वामित्रादयो य ऋषयस्तानृषीस्तर्पयामि । भूपी० । भुवर्ऋषीं । सुवर्कपीस्तर्पयामि । इत्युपन्सितर्ण्य प्राचीनापीती वैशम्पायनादयो ये पितरस्तान्पिति॒स्तप. यामि । भूः पितृनित्यादिना पितृन्सतर्पयेत् । ततो वस्त्रपरिधानं कृत्वा संध्यावन्दनादि नित्यकर्म विधाय ब्रह्मयज्ञविधिना ब्रह्मयज्ञं कुर्यात् । गृहे स्नानं तु गृहद्वाराभिमुखम् । गृहे स्नान आदावेव संकल्पं कृत्वा शीतासूष्णा आनीय मलापकर्षस्नानादि कुर्यात् । अत्राघमर्षणं मार्गनं तर्पणं च नास्ति । स्नानान्त एवाऽऽचमनम् ।।
इति नित्यस्नानतर्पणयोः प्रयोगः ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 166 167 168 169 170 171 172 173 174 175 176 177 178 179 180 181 182 183 184 185 186 187 188 189 190 191 192 193 194 195 196 197 198 199 200 201 202 203 204 205 206 207 208 209 210 211 212 213 214 215 216 217 218 219 220 221 222 223 224 225 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262