Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 228
________________ उपोद्घातः । घामतो वामभागे । स्मृत्यन्तरे गृहस्थः कुरुते कर्म वैदिकं वाऽथ तान्त्रिकम् । कटिबन्धनसंयुक्तं तत्सर्व निष्फलं भवेत् ।। इति । भाचारदर्पणे स्मृत्यन्तरे दैवमानुषत्राः स्युरलंकारा यथायथम् । इति । देवे कर्मणि देवो मानुषे मानुषः पित्र्ये पैत्र इति यथायथशब्दार्थः । मानुषं कर्मोपनयनादि । अग्न्याधानस्य देवत्वादेवालंकारमाप्तौ विशेष उक्तो बोधायनेन-मानुषेणालंकारेणालंकृतौ भवत इति । एतत्स्वरूपं कर्मान्ते बोधायन आह--सर्व एवान्यो मानुषोऽलंकारोऽ. न्यत्र नलदादा येवैतदुदाहरन्ति स्व जमु हैके प्रतिषेधयन्तीति । वैखा. नसोऽपि हेमभूषणसंपन्नः शुभ्रवस्त्रानुलेपनः । सुगन्धिकुसुमैर्जुष्टो दिव्योऽलंकार उच्यते ॥ स एव पुष्परहितः साञ्जनो मानुषः स्मृतः । एषोऽनुलेपरहितः पत्रोऽलंकार ईरितः ॥ इति । स एव दिव्य एव । एष दिव्यः । वाराहे स्नानं संध्या जपो होमः स्वाध्यायो देवतार्चनम् । उपोषितः सन्कुर्वीत सायंसंध्याहुतीविना ।। इति । इदमुपलक्षणमन्यकर्मणाम् । उपोषितः प्रकुर्वीत सर्वकर्माणि संयतः । इति स्मृयन्तरात् । अशक्तं प्रत्यनुग्रहश्चतुर्विशतिमते इक्षुरापः फलं मूलं ताम्बूलं पय औषधम् । भक्षयित्वाऽपि कर्तव्याः स्नानदानादिकाः क्रियाः ।। इति । ताम्बूलभक्षणानुग्रहेऽपि विगानादिदानी नैवेदं भवति । कर्मप्रदीपे पेषण्युलूखलग्रावतैलयन्त्रादिषु ध्वनिः । यावत्प्रवर्तते तावत्कर्म नैव समाचरेत् ।। चण्डालपतितादीनां शब्दो यावत्मवर्तते । तावत्कर्म न कर्नव्यं मृतिकोदक्यपोस्तथा ।। इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 226 227 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262