Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 249
________________ ६२ भट्टगोपीनाथदीक्षितविरचितः-- स्मृत्यन्तरे कुत्सिते वामहस्तः स्याद्दक्षिणः स्यादकुत्सिते ॥ कुत्सितममेध्यम् । अकुत्सितं मेध्यम् । कुत्सिताङ्गस्पर्शो वामहस्तेन कर्तव्यो दक्षिणेनाकुत्सिताङ्गस्पर्श इति तात्पर्यार्थः । ते च मेध्यामध्ये श्रृती प्रदर्शिते--ऊध वै पुरुषस्य नाभ्यै मेध्यमवाचीनममेध्यमिति । नाभ्य नाभ्या इत्यर्थः । नाभिस्पर्श तु दक्षिणवामयोपिकल्पः । तस्या मध्यवर्तित्वेनोभयधर्माकान्तत्वात् । प्रधानसंकल्पदिनादव्यवहितपूर्वस्मिन्दिनेऽपराहे नान्दीश्राद्धं कार्यम् । नान्दीमुखाह्वयं प्रातरानिकं त्वपराहक इति विष्णुनाऽऽनिकनान्दीश्राद्धस्यापराह्नकर्वव्यतोक्तेः । न च प्रधानसंकल्पदिनापराह्न एव क्रियाऽस्त्विति वाच्यम् । प्रधानसंकल्पस्य पूर्वाह्न. एव कर्तव्यत्वेनासंभवात् । न च कर्ममध्य एवापराहे क्रियाऽस्त्विति वाच्यम् । गत्यन्तरसंभवेन बोधायनेन नान्दीश्राद्धस्य पूर्वदिने कर्तव्यताया गृहासूत्रे स्पष्टतयोक्तत्वेन च श्रौतकर्ममध्ये स्पानुष्ठानस्यायुक्तत्वात् । एतेन औतापानमध्ये स्मार्तस्य नान्दीश्राद्धस्यानुष्ठानं वदन् रामाप्डारः परास्तः । नान्दीश्राद्धापूर्व मातृपूजनमवश्यमेव कर्तव्यम् । तथा च कूर्मपुराणम्-- पूर्व तु मातरः पूज्या भक्त्या तु सगणेश्वराः। पुष्पधूपैः सनैवेधैर्गन्धाधैर्भूषणैरपि । पूजयित्वा मातृगणान्कुर्याच्छाद्धत्रयं बुधः ॥ इति । एतस्मादचनान्मातृकापूजने नान्दीश्राद्धाङ्गता । अस्मिन्पक्षे पृथङ्न संकल्पवाक्य ऊहः । मातृकापूजनस्य करणं चापराह्न एवेति । गणशः क्रियमाणानां मातृणां पूननं सकृत् । सकृदेव भवेच्छाद्धमादौ न पृथगादिषु ।। इति । ब्रह्मपुराणे पृथग्ग्रहणाल्लिङ्गादनङ्गन्त्वमपि । अस्मिन्पक्षे संकल्पवाक्ये पृथगुल्लेखः । पूर्वाह्न एव क्रियेति ज्ञेयम् । अस्मिन्नान्दीश्राद्धे क्रतुदक्षसंज्ञका विश्वेदेवाः । इष्टिश्राद्धे क्रतुर्दक्ष इति वचनात् । इष्टिश्राद्धं कर्माङ्ग श्राद्धमिति हेमाद्रिणा व्याख्यानात् । वाक्यमप्युदाहृतं तेन निषेककाले सोमे च सीमन्तोन्नयने तथा । ज्ञेयं पुंसवने श्राद्धं कर्माङ्गं वृद्धिवत्कृतम् ॥ इति । Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262