Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
६२
उपोद्घातः। इदं च जीवत्पितुरपि । तथा च मैत्रायणीयपरिशिष्टम् -
उद्वाहे पुत्रजनने पित्र्येष्टयां सौमिके मखे ।
तीर्थे ब्राह्मण आयाते पढेते जीवत्तः पितुः ।। इति । अस्मिन्नान्दीश्राद्धे शालायनमत्रोक्तामूलदर्भविधिरेच न तु ब्रह्माण्डोक्तदूर्वाविधिः । स तु विवाहादौ क्रियमाणे नान्दीश्राद्ध इति व्यवस्था निबन्धकारैरुक्ता साऽप्यनुसतव्या।
असकृद्यानि कर्माणि क्रियन्ते कर्मकारिभिः । प्रतिप्रयोग नैताः स्युर्मातरः श्राद्धमेव च ।। आधानहोगयोश्चैव वैश्वदेवे तथैव च । बलिकर्मणि दर्शे च पूर्णमासे तथैव च ॥ नवयज्ञे च य ज्ञज्ञा वदन्त्येवं मनीषिणः ।
एकमेव भवेच्छ्राद्धमेतेषु न पृथक्पृथक् ॥ इति कात्यायनवचनेषु प्रथमः श्लोकोऽपराभ्यामुक्तानांमाधानादीनां के पांचिदेव वाऽऽवृत्तावपि नान्दीश्राद्धं नाऽऽवर्तत इत्येतत्परतया व्यवस्थाप्यते । आधान इत्यादिश्लोकद्वयं पूर्वोक्तकर्मणामेव विवरणार्थ न पृथग्वाक्यम् । अतो ज्योतिष्टोमादिषु प्रतिप्रयोगं भवत्येव कर्माङ्ग वृद्धिश्राद्धमिति ज्ञेयम् । शक्तो सत्यां बोधायनोक्तं रात्रावुदकशान्तिप्रतिसरबन्धात्मकं कर्मद्वयमपि क्रमेण तन्त्रेण वा कर्तव्यम् । ततः शक्ती सत्यामङ्कुरारोपणमपि तदुक्तं कार्यम् । शौनकः--
आधानं गर्भसंस्कारं जातकर्म च नाम च ।
हित्वाऽखुरारोपणं स्यादन्यत्र शुभकर्मसु ॥ आधानमन गर्भाधानमेव । गर्भसंस्कारसाहचर्यात् । सद्यो वाऽङ्कुरा. रोपणमिति पक्षे द्वितीयदिने पुण्याहवाचनात्पूर्वमनन्तरं वा कार्यम् । ततः प्रधानसंकल्पदिवसे गोमयेनोपलिप्तायां रङ्गवल्ल्या भूपितायां तोरणैण्डितायां शालायामिष्टदेवान्संपूज्य शिष्टानामनुज्ञां गृहीत्वा तत्संनिधौ कर्म कुर्यात् । आदौ कर्माङ्ग स्नान कार्यम् ।
शिरःस्नातः कर्म कुर्याप्दैवं पित्र्यमथापि वा ॥
इति स्मृत्यन्तरात् स्मृत्यन्तर एव
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262