Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घातः । चिदारमनापवादमाहो त्र:__ मधुपर्के च सोये च प्राणाहतिषु चाप्सु च ।
आस्यहोमेषु सर्वेषु नच्छिष्टो भवति द्विजः ।। इति । नोच्छिष्ट इत्यनेनाच्छिष्टत्वाभावे चोधिते तनिमिक्षाचमनादिकमप्यत्र नास्तीत्यात्सिध्यतीति द्रष्टव्यम् । वृहन्मनु:
_ प्राणानायम्य कुर्यात सर्वकर्माणि संयतः ।। इति । कम्प्रदीपे
देवार्चने जो होमे स्वाध्याये पितृकर्मणि ।
स्त्राने दाने तथा ध्याने प्राणायामास्त्रयस्खयः ॥ इति । वोधायन:
भोजन हवनं दानमुपहारः प्रतिग्रहः ।
बहिर्जानु न कार्याणि तद्वदाचमनं स्मृतम् ।। इति । ईश्वरं ध्यात्वा कर्म कुर्यात् । तथा च दोधायनः कर्मान्तसूत्रे-क उ रूल यज्ञ इति पुरुष इतीति । अत्र यज्ञस्य कर्मरूपत्वेनासंदिग्धत्वाचं तत्स्वरूपचिषयः प्रश्नः किंतु र ज्ञाधिदेवत्तविषयः । अत एव पुरुष इती. त्युत्तरम् । पुरुष इति विष्णुरुच्यते यतः सर्वात्मा । तथा च परिभाषा याम्-पुरुषो वै र.ज्ञो यज्ञो वै विष्णुः पुरुषः । पुरुष एवेदः सर्वमिति चति । अत्र यज्ञशब्दश्छत्रिन्यायेन वषट्कारमदानरहितकर्मवाच्यपि । मुख्यस्तु सवषट्कारप्रक्षेपे क.मणि । चपट्कारप्रदाना यजतयः स्वाहाकार प्रदाना जुहोतय इति कात्यायनः । वायुपुराणे तु---
पशूनां द्रव्य हविपामृवसामयजुपां तथा ।
ऋस्विजा दक्षिणानां च संयोगो यज्ञ उच्यते ।। इति यज्ञशब्दार्थ उक्तः सोऽप्यविरुद्ध एव । परं त्वेताशे कर्मगि मुख्य इति तात्पर्य कलयं परस्पराविरोधाय । सूत्र.न्तरेऽपि-ईश्वरं यक्षरे ध्यायेदिति । यक्षरश्.ब्देन हृदयमुच्यते । तदेतत्रयक्षरं हृदयमिति बृहदारण्यकात् । यज्ञशब्दस्य विष्णारपि प्रवृत्तिः । वैदिकनिघण्टावपि दर्शनात् । यज्ञो वै विष्णुरिति श्रुतेश्च । तथा च यज्ञरूपस्यैव विष्णोरभि. ध्यानम् । तच्च रूपं हरिवंशपद्मपुराणयोः
वेदपादो यूपदंष्टः क्रतुहस्तश्चितीमुखः । अनिजिह्नो धर्मरोमा ब्रह्मशीर्पो महातपाः ।।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 250 251 252 253 254 255 256 257 258 259 260 261 262