Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घाता। जातमुत्पन्नं यथा मृदः सकाशादुत्पन्नो घटः स्वोपादानं मृदमत्यक्त्वा जीवति प्रलीयमानोऽपि मद्येव प्रलीयत एवं ब्रह्मणः सकाशाज्जातं जगदपि ब्रह्मात्यक्त्वा जीवति प्रलीयमानं च ब्रह्मण्येव प्रलीयत इत्यु. क्त्वोत्तरशास्त्रसंदर्भेण ब्रह्माणि समन्वयादिकं प्रतिपाद्य ब्रह्मार्पणबुद्धयैव कर्माणि कर्तव्यानीत्युक्तम् । ततश्च श्रीपरमेश्वरप्रीत्यर्थ ज्योतिष्टोमेन यक्ष्य इत्यादिस्वाभीष्टसदाशिवगजानननारायणाशुपाध्यवच्छिन्नपरमेश्वरमीत्युदेशेन संकल्पः कार्यः । यद्यपि संकल्पः कर्म मानसमित्युक्तं तथाऽपि श्रीतकर्मसु वाचिकोऽपि । यो यक्ष्य इत्युक्त्वा न यजते त्रैधा. तीयेन यजेतेति श्रुतावुक्त्वेत्युक्तेः । अत्र जलहस्तत्वांद्याचारात् । परिशिष्टे
यन्नाऽऽम्नातं स्वशाखायर्या पारक्यमविरोधि यत् ।
विद्वद्भिस्तदनुष्ठेयमग्निहोत्रादिकर्मवत् ।। इति । शाखान्तरोपसंहारे यथोपदेशं कुरुत इति वैश्वदेवसूत्रमपि प्रमाणम् । वैश्वदेव एव यथोपदेशकरणनियमादन्यत्रैवोपसंहारो न वैश्वदेवे । स च पाक्षिक एव । स च सूत्राविरोधेन । यत्र शास्त्रान्तरीयपक्षस्य कण्ठोक्त्या निषेध एवशब्दश्रवणं वा तत्र तु नैवोपसंहारः । प.रक्यमविरोधि यदि. त्यनन्तरोदाहृतपरिशिष्टवचनात् । न च शास्त्रान्तरोक्तप्रधानाङ्गानां स्वशास्त्रत आधिक्ये तस्याप्युपसंहारः पक्षे स्यादिति वाच्यम् ।
बह्वल्पं वा स्वगृह्योक्तं यस्य यावत्प्रचोदितम् ।
तस्य तावति शास्त्रार्थे कृते सर्व कृतं भवेत् ॥ इति वचनेन तन्निरासात् । गृह्यग्रहणस्य श्रौतकर्मोपलक्षणार्थत्वात् । न चैवं कस्याप्युपसंहारो माऽस्त्विति वाच्यम् । यथोपदेशं कुरुत इत्यनेन शास्त्रान्तरीयोपसंहारस्य वैश्वदेवातिरिक्तस्थले प्रवृत्तेरुक्तत्वात् । तत्रेयं व्यवस्था । यत्र स्वशास्त्र सामान्यत उक्तं तद्विषये शास्त्रान्तरे स्वसूत्रावि. रुद्धं प्रकृतीपयोगि किंचिदधिक मुक्तं चेत्तावन्मानं ग्राह्यमेव । यथा सामा. न्यतो दभैरग्नीपरिस्तुणातीत्युक्ते दर्भसंख्याविशेषस्वीकारः । स्वशास्त्रा. पेक्षया शास्त्रान्तरे विशेषो विकृतौ यः सोऽपि स्वीकार्य एव । यथा दीक्षणीयेष्टयादौ प्रधानस्वरविशेषः । अयं वापरो विशेषः । स्वशास्त्रो. क्तेषु शास्त्रान्तरोक्तोपसंहारपक्षे तदुक्तेषु च पक्षेषु मध्ये यो हौत्रशास्त्रैक.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 258 259 260 261 262