Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
७१
उपोद्घातः । सर्वमिति । अन्य सूत्रे-यावदुक्तं पत्न्याः कर्माणि ब्रह्मचर्य जपाश्चति । दंपत्योरविशेषेण प्राप्तानि याजमानकर्माणि पत्न्या नियम्यन्ते । कुतो यदि याजमानं कर्म सर्व तस्या अपि स्यात्तदा पत्न्यवेक्षत इत्य नर्थक स्यात् । अतो ज्ञायते यावदुक्तमेव तया कार्यमिति । अत्र यावदुक्तमेव कर्माणीति नियमो न तु याव दुक्तं कर्माण्ये वेति । न ब्रह्मचर्यजपपरिसंख्यति वक्तुमुक्तं ब्रह्मचर्य जपाश्चेति । ब्रह्मचर्य तद्यजमानब्रह्मचर्येणात्तिस्या अपि सिद्धमेव तथाऽपि मनोविकारमपि निरुध्यादिति वक्तुं पुनर्वचनम् । पत्न्याः प्रत्यगाशिषां मन्त्राणां याजमाने न विनियोग इति तेषां लिङ्गेन जपार्थोऽयमारम्भः । जपशब्देनोपस्थानादिकमान। स्वस्याः प्रत्यगाशिपो नियन्त इति । स्त्रीणा, प्यधिकार उक्तो धर्मः सूत्रे-जायापत्योर्न विभागो विद्यते पाणिग्रहणाद्धि सहत्वं कर्मसु तथा पुण्य क्रियासु द्रव्यपरिग्रहेषु चेति । कात्यायनोऽपि--ब्राह्मणोऽ. मीनादधीत स्वर्गकामो यजेतेति विशिष्टलिङ्गश्रवणास्त्रिया अनधिकारे प्राप्त आह-स्त्री चाविशेषाद्दर्शनाच्चेति । स्त्री चाधिक्रियते । कुत एतत् । अविशेषात् । यस्माच्छयमाणमपि लिङ्गं न विशेषप्रत्यायक भवति । अतो न पुंसामेवाधिकार इति । उद्दिश्यमानविशेषणं ह्येतत्स्वर्ग: कामो यजेतेति विधिसंस्पर्शाभावात् । अविवक्षितं लिङ्ग संख्या च। यत्र पुनर्विधिसंस्पर्शोऽस्ति तत्र लिङ्ग संख्या चेत्येतद्द्यं विवक्षितमेव । यथा पशुमालभेतेत्यत्र तद्विशेषणं पुं त्वमेकत्वं चोभयं विधीयते विशिष्टपश्वा. लम्भोऽन्यथा न भवति । तस्मात्स्त्रिया अप्यधिकारः । दर्शनाच्च दृश्यते चायमों यथा स्त्रिया अप्यधिकार इति । मेखलया यजमानं दीक्षयति योकत्रेण पत्नीमिति योक्त्रविधिपरे वाक्ये पन्या अप्यधिकारं दर्शयति । सा च पुंसा सहाधिक्रियते न पृथक् । क्रियाफलं च सक. लमेकैकस्य भवति न विभागेन स्वर्गकामो यजेतेत्यनेन यथा यजमानोऽभिधीयत एवं पत्न्यपीति । यथा यागेन यजमान फलं साधयति तथा पत्न्यपीति । वाक्यान्तरेण सह क्रियाऽनयोः । तथा च श्रवणम्
नास्ति स्त्रीणां पृथग्यज्ञो न व्रतं नाप्युपोषणम् ।
शुश्रूषयति भर्तारं तेन स्वर्गे महीयते ।। इति । तस्मादुपनीताधीतानां त्रैवर्णिकानां तज्जातिस्त्रीणां च ब्राह्मणविहिते. वाधानाग्निहोत्रदर्शपूर्णमाससोमादिकस्विधिकार इति सिद्धम् । जैमि.
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 256 257 258 259 260 261 262