Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
७०
भट्टगोपीनाथदीक्षितविरचितःसंकल्पे प्रवर्तमानस्य द्रव्यप्रकल्पनं मा भूत् किंतु संकल्पात्पू मेव यक्ष्यमाणस्येति । यजमानपदं द्रव्यप्रकल्पनपन न संबद्धमिति पुनरग्रिमै. रेव संबन्धो यथा स्यादिति सप्रयोजनम् । दक्षिणादानादित्रयेण संबपत उत्तरत्रानुवर्तते च । दक्षिणादानं स्वत्वत्यागरूपं नास्वामिनः संभवति । सामर्थ्यमपि श्रुत्या बाध्यतेऽनडान्होत्रा देय इत्यादिना । अष्टाङ्गमै. थुनत्यागो ब्रह्मचर्यम् । तद्यजमानसंस्कार एव । समाख्यायाः सामन बाधात् । ऋत्विजां हि ब्रह्मचर्याभावेऽपि कर्तृत्वसंभवात् । तस्माद्दीक्षा. संस्कारवत्स्वामिनः संस्कार इति भवत्यदृष्टार्थः संस्कारो यजमानस्यैव । अत एव लिङ्गेन समाख्यावाधे सति योऽस्याग्नीनाधास्यमानो भवति स एतां रात्रिं ब्रह्मचर्य परतीत्यध्वयोर्ब्रह्मचर्यविधानम् । आश्वलायनस्तु ऋत्विजामपि ब्रह्मचरं माह-न मांसमश्नीयुन स्त्रीमुपेयुरा क्रतोरपवर्गादिति । अपवर्गः समाप्तिः । अष्टाङ्गमैथुनं दक्षेण प्रदर्शितम्
स्मरणं कीर्तनं केलिः प्रेक्षणं गुह्यभाषणम् । संकल्पोऽध्यवसायश्च क्रियानिर्वृत्तिरेव च ॥ एतन्मैथुनमष्टाङ्ग प्रवदन्ति मनीषिणः ।
विपरीतं ब्रह्मचर्यमेतदेवाष्टलक्षणम् ॥ इति । अभिलापपूर्वक स्मरणकीर्तनप्रेक्षणानि निषिद्धानि । केलिः परिहासादिवाह्यचेष्टा । गुह्यभाषणं संभोगार्थ रहोमन्त्रणम् । संकल्पो मानसं कर्म । अध्यकप्तायः संभोगनिश्चयः । क्रियानिवृत्तिः क्रियानिष्पत्तिः । यत्र कुत्रापि वेदे पठिनानां मन्त्राणां जपः पन्या अपि । वक्ष्यति च धर्मषु न हि मढविप्रवासे स्त्रिया नैमित्तिके दाने स्तेयमुपदिशन्तीति तस्या अपि स्वाम्यमस्त्येवेति प्रवराति यजमाने दक्षिणादानं पत्न्याऽपि कार्यम् । वरो देयः। छिन्दत्माणि दद्यादित्यादिना विहितं स्कन्नादिनिमित्तं दानमपि दक्षिणाशब्देन ग्रह्य प्रदेयमात्रग्रहणात् । अन्यच्च मूत्रे-प्रत्यगाशिषो मन्त्रानकर्मकरणाञ्जपति तथोपदिश्यमानानुपतिष्ठतेऽनुमन्त्रयतेऽ. भिमन्त्रयतेऽभिमृशति जपतीति चेति । दर्शितव्याख्यानमेतत्सूत्रम् । अन्यच्च सूत्रे-यावदुक्तं कर्माणि करोतीति । यजमान एवोपस्थानादि. जपानामङ्गभूतानि कर्माण्यपि यावदुक्तमनतिक्रम्य करोति प्रत्यगाशीम'त्रैरुत्सर्गेण जपस्तैः कर्माणि यावद्विहितान्येव करोति । अस्माभिर्यावस्कर्तव्यं यजमानस्योच्यते तावदेव तेन कार्य न यजमानकाण्डविहितं
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 255 256 257 258 259 260 261 262