Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथदीक्षितविरचितःछेदने भेदने चैव निरासे खनने तथा ।
आत्माभिमर्शने चैव निरस्याप उपस्पृशेत् ॥ इति । याज्ञवल्क्य:
रौद्रपित्र्यासुरान्मन्त्रांस्तथा चैवाऽऽभिचारिकान् ।
व्याहत्याऽऽलभ्य चाऽऽत्मानमपः स्पृष्ट्वाऽन्यदाचरेत् ।। इति । व्याहृत्योक्त्वा । अन्यत्कर्म । कात्यायन:
पित्र्यमन्त्रानुद्रवण आत्मालम्भे तु दक्षिणे । अधोवायुसमुत्सर्गे प्रहासेऽनृतभाषणे ।। मार्जारमूषकस्पर्श आक्रोशे क्रोधसंभवे ।
निमित्तेष्वेषु सर्वेषु कर्म कुर्वन्नपः स्पृशेत् ।। इति । अनुद्रवणं पठनम् । आक्रोशो रोदनम् । क्रोधसंभव उपस्पर्श किसु वक्तव्यं क्रोधोत्पत्तावित द्रष्टव्यम् । अनाऽऽत्मशब्देन हृदयम् । दहं विपाप्मं परवेश्मभूतं यत्पुण्डरीकं पुरमध्यसरस्थम् । तत्रापि दहं गगनं विशोकस्तस्मिन्यदन्तस्तदुपासितव्यम् ।। इति उपनिषदि परमात्मनः सर्वव्यापित्वेऽप्युपासनोपयोगित्वेन हृदयस्यैवाधिष्ठानत्वोपवर्णनादात्मनः साक्षादभिमासंभवात् । बोधायन:एकैकस्योदककमण्डलुरुपात्तः स्यादाचमनार्थ इति । लाट्यायनद्राह्यायगौ-सर्वेषां यज्ञोपवीतोदकाचमने नित्ये कर्मोपयतामव्यवायोऽव्यात्तिश्च यज्ञाङ्गैरिति । अव्यावृत्तिरिति पदच्छेदः । आश्वलायन:एकाङ्गवचने दक्षिणं प्रतीयादनादेश इति । चक्षुरादेरनङ्गत्वात्तेष्वयं नियमो नास्ति । अवयवविशेषाश्रया हि शक्तयश्चक्षुरादय उच्यन्ते नावयवाः । एतन्मूलभतं ज्ञापकं त्वथास्यै मण्डलागारच्छायायां दक्षिणस्यां नासिकायामजीतामोषधी नस्तः करोतीत्यत्र दक्षिणग्रहणम् । छन्दोगपरिशिष्टे
यत्रोपदिश्यते कर्म कर्तुरङ्ग न तूच्यते ।
दक्षिणस्तत्र विज्ञेयः कर्मणां पारगः करः ॥ इति । शाङ्खाचन:-आचमनप्रभति येनाधिकरणेन संयुज्येत न तेन व्यावतेत न च व्यवेयादित्यावृतां लक्षणोद्देश उत्तरत उपाचार इति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262