Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घातः । स्या क्रूरत्वे नियामकाभावात् । तस्माद्रा घासुका इति बहुष्वपि दर्शनाच्च । पित्रादिष्वपि तथा प्रसङ्गेन पितृभ्यस्त्वा पितृन्जिन्वेत्यत्र तदभावप्रसङ्गादिति ज्ञेयम् । रक्षसां भागधेयमित्यत्रोपस्पर्शनं कर्तव्यम् । तुःफलीकरणेदेवा हविर्यज्ञेभ्यो रक्षांसि निरमजन्नस्मान्महा यज्ञादिलि बढचश्रुतिदर्शनात् । वैश्वानरे हविरित्यत्रोपस्पर्शनं भवति पिततिकारस्वान्मन्त्रस्य । शुन्धन्तां लोक इति पैतृकम् । तथा पितृगा५ सदनमसीति । सर्वरौद्रे सर्वराक्षसे सर्वनैऋते सर्वपित्र्ये नाऽऽवर्तते । यत्र द्रादीनां नरन्तर्येण करणं तत्रापि न प्रतिरौद्रं न प्रतिराक्षसं न प्रतिनतं न प्रतिपित्र्यम् । अत एव सकृदुपस्पर्शनम् । अतः पित्र्ये बलिहरण उपस्पर्शनं न । कृत्व रौद्रं बलिहरणमुपस्पृशेत् । प्रतिदिशं केशच्छेदने वपने पत्रनान्त एवोपस्पर्शनम् । निरसने वाक्यान्तरोपात्तेऽपि भवत्युपस्पर्शनम् । य. था वेदिकरणानि संन्यस्तानीत्यत्र । चकारः स्मार्तस्य केशाधुपालम्भनिमित्तस्य संग्रहार्थः। अथवा भरद्वाजोपदिष्ठावलेखनपरिलेखनयोर्बोधायनोपदिष्टखननस्य च संग्रहार्थः । अनि पृष्ठतः कृत्वा यत्पर्यावर्तनं तदपपर्यावर्तनम् । अग्नेरभिमुखमेव क्रियासु पर्यावर्तेतेत्यर्थः। विहारादपि न पर्यावर्तेत । महा. वेद्यनावप्रणीते विहारं पृष्ठतः कृत्वा पर्यावर्तनप्रतिपेधार्थमारम्मो न विहारादित्येतस्य मुत्रस्य । बोधायन:-उत्तरत उपचारो विहारस्तथाऽपवर्गो विपरीतं पित्र्येषु पादोपहतं प्रक्षालयेदनमुपस्पृश्य सिचं वाऽप उपस्पृशेत् । एवं छेदनभेदनखनननिरसनपैतृकराक्षसनतरौद्राभिचरणीयेष्वप. उपस्पृशेदिति । सिग्वस्त्रदशा । योऽस्मान्द्वेष्टि यं च वयं द्विष्म इत्यादीन्यभिचरणीयानि तेष्वित्यर्थः । सर्वत्रोपस्पर्शशब्दस्योपस्पर्शस्त्वाचमन मितिकोशादाचमनमर्थों यद्यपि तथाऽपि उपस्पृश्याऽऽचम्येत्यग्निष्टोमयाजमानमूत्राल्लिङ्गात्तु स्पर्शमात्रमेवार्थः । यदि तत्रोपरपर्शशब्देनाssचमनं विवक्ष्येत तदाऽप उपस्पृश्याऽऽचम्येत्यत्राऽऽचन्याऽऽचम्येति द्विराचम्येत्येव वा लाघवाब्रूयात् । तस्मादेवमत्र ज्ञायत उपस्पर्श शब्देन स्पर्शनमवति । कात्यायन:-रौद्र राक्षसमासुरमाभिचारिकं मन्त्रमुक्त्वा. पिच्यमात्मानं चाऽऽलभ्योपस्पृशेदप उपस्पृशेदप इति । चशब्दात्कर्म च. कृत्वेत्य स्यार्थस्य लाभः । दर्शयति चैवं श्रुति:-रूद्रियेणेव वा एनदचारिषुः शान्तिरापस्तदद्भिः शान्ल्या शमयतीति । द्विरुक्तिः प्रश्नसमाप्तिद्योतनाय । स्मृत्यन्तरे
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262