Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 244
________________ उपोद्घातः । भरद्वाजः-ज्वलत्येव सर्वा आहुतीर्जुहुयादिति । ज्वलतीत्यग्निविशेपणम् । प्रवृत्ते कर्मणि नियतस्य काल आगते नियतं कर्तव्यमेव । अकरणे दोषः स्यादित्याह कात्यायन:-प्रवृत्ते नियतं दोषविशेषादिति । तथा स एव-खातलूनच्छिन्नावहतापष्टदुष्टदग्धेषु यजुष्क्रियासंभवादिति । आपस्तम्ब :-मन्द्रेण प्रागाज्यभागाभ्यां प्रातःसवने च मध्यमेन प्राक्स्विष्टकतो माध्यंदिने च ऋष्टेन शेषे तृतीयसवने च वाक्संद्रवश्च तद्वदिति । आदितस्त्रयश्चकारास्तत्तत्सवनमध्यवर्तिनां पाश. कानां च तत्तत्स्वरमाप्त्यर्थाः । पत्नीसंयाजानां सवनस्वरो न भवति । पशुवत्पत्नीसंयाजा इति वचनात् । वाचो गतिक्सिंद्रवः । विलम्बितो मध्यमो द्रुत इति । मन्दादिवत्सवनानुक्रमेण प्रागाज्यभागानुक्रमेण च वि. लम्बितादयो भवन्तीत्यर्थः। चशब्दस्त्वेतेषु स्थानेषु स्वरान्तरोपदेशात्माकृ. तस्वरो यथा निवर्तते तथा विलम्बितादयो न निवर्तन्त इति नियमार्थः । यथा सामिधेनीप्रभृत्युपांशु यजतीति । पौनराधेयिक्यामुरसि मन्द्रं कण्ठे मध्यमं शिरसि तारमिति । प्रातिशाख्ये मन्द्रमध्यमताराणां लक्षणान्यु. क्तानि । तारः क्रुष्टः क्रौञ्च इति पर्यायाः । आश्रुतादीनामुच्चैःस्वर. विधानार्थमेतेषां मूत्राणामारम्भः । स एव-जुहोतीति चोद्यमाने सर्पिराज्यं प्रतीयादध्वर्यु कर्तारं जहूं पात्रं व्याप्तायां सुवेणेति । भरद्वाजो विशेषमाह-प्रचरण्या सोम इति । तथाऽन्यमप्याह विशेषमाप. स्तम्बः-होत्रायाजमानेषु समुच्चय इति । होत्रा इति होतृकर्तृकाः क्रियमाणानुवादिनो मन्त्रा अभिधीयन्ते । याजमाना ये नैकवेद आनाताः । होत्राश्च याजमानाश्च होत्रायाजमानाः। तेषु होत्रायाजमानेषु समुचयो वेदितव्यः । उच्छ्यस्व वनस्पत इति यूपोच्छ्यणार्थी ऋचो होतः मुब्रह्मण्यानुमन्त्रणं स्तोत्रानुमन्त्रणं चाऽऽश्वर्यव औद्गात्रे च वेदे यज. मानस्य च समुच्चीयते । तथा स एव विकल्पो याज्यानुवाक्यानाम् । याज्यानुवाक्ययोरपि हौत्रवत्प्राकृतस्य समुच्चयस्यायमपवादः । द्वादशाध्याये तृतीयपादे जैमिनिरपि-हौत्रास्तु विकल्पेरनेकार्थत्वात्। क्रियमाणानुवादित्वात्समुच्चयो वा हौत्राणामिति । हौत्रा होतसंबन्धिनो ये मन्त्रास्ते त्वेकार्थत्वादेककार्यत्वादिकल्पेरन् । एकेन मन्त्रेण कार्यसिद्धावितरण न कार्यमस्तीति युक्तस्तत्र विकल्पः । एवं क्रियमाणानुवादिष्वपि प्राप्तौ तन्निरासाय क्रियमाणानुवादित्वादित्येत्सूत्रम् । अध्वर्युक्रियमाणकर्मानुवादिनो मन्त्रा उच्छ्यस्व वनस्पत इत्यादयस्तेषां तु क्रियमाणानुवादित्वा. Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262