Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 245
________________ ५८ भट्टगोपीनाथदीक्षितविरचितःसमुञ्चय एव हौत्रत्वेऽपि नतु विकल्प इत्यर्थः । क्रियमाणानुवादिनस्त्वत्र. यणा क्रियमाणस्य कर्मणः स्मृत्यविच्छेदार्थाः। अविच्छेदश्वाऽऽन्तादपेक्षित इति सर्वेषां समुच्चय इति । एकफलावच्छिन्नानेकक्षण. निचयरूपत्वादुच्छ्यणानिक्रियायाश्चरमक्षणपर्यन्तं स्मृतेरपेक्षितत्वात्स्मृत्यविच्छेदः सप्रयोजनो भवतीति द्रष्टव्यम् । प्रथमाध्याये सूत्रेऽपि-समभ्युच्चीयेरन्हौत्राण्यन्यत्र याज्यानुवाक्याभ्य इति । एकमन्त्रााण कर्माणीति सूत्रेण प्राप्तमेकमन्त्रत्वं तद्धोत्रेऽपोद्यते । हौत्रत्वाधाज्यानुवाक्या. स्वपि प्राप्तौ तां वारयितुमन्यत्र . याज्यानुवाक्याभ्य इति । सूत्र एव क्रियमाणे हौत्राण्युच्यन्त इति मन्त्रान्तेन कर्म संनिपातयेदित्यस्यापवादः। आपस्तम्बः-संख्यासु च सद्वदिति । दक्षिणासु वक्ष्यमाणासु समुच्चयस्यापवादः । संख्यामु निर्दिष्टासु तद्वद्दक्षिणाभूतानां द्रव्याणां विकल्प इत्यर्थः । सप्तकविंशतिः षष्टिः शतं द्वादशेति । तथा स एव-क्रयपरिक्रयसंस्कारेषु द्रव्यसमुच्चय इति । क्रयः सोमक्रयः । तत्राजाहिर. ण्यादिद्रव्याणां समुच्चयः । परिक्रयो दक्षिणादानम् । तत्र बहुनां द्रव्याणां विनियुक्तानां समुच्चयः । यथाऽऽधाने मिथुनौ गावी ददाति चासो ददातीति । त्रैधातवीयायां हिरण्यं ददाति ताय॑ ददाति धेनुं ददातीति । संस्कारो दीक्षितसंस्कारः । तत्र दण्डमेखलादीनां समुच्चयः। तथा स एव-रौद्रराक्षसनर्ऋतपैतृकच्छेदनभेदननिरसनात्माभिमर्श नानि च कृत्वाऽप उपस्पृशेत् । उत्तरत्त उपचारो विहारो नाग्नेरपपर्यावर्तेत न विहारादिति । रुद्रो देवता यस्य तत्प्रधानं वा कर्म रौद्रम् । रक्षासि देवता यस्य तत्प्रधानं वा कर्म राक्षसम् । निऋतिर्देवता यस्य तत्प्रधानं वा नैर्ऋतम् । पितरो देवता यस्य तत्मधानं वा कर्म पैतृकम् । छेदनं द्वैधीकरणम् । भेदनं विदारणम् । रोद्रेणानीकेनेत्यत्र नोदकोपस्पर्शनम् । अनीकविशेषणत्वात् । बहुवचनान्तेऽपि रुद्र. शब्द उदकोपस्पर्शनम् । यथा रुद्रास्त्वा परिगृह्णन्त्वित्यत्र रौद्रत्वात्क. मण इति केचित् । अन्ये तु रुद्रप्राधान्याभावात्तदनुपकारकेऽस्मिन्कर्मणि नोदकोपस्पर्शनम् । ब्राह्मणे घस्थादिभिर्देवतोपकारश्रवणादिति वदन्ति । अपरे तु एकस्मिन्नेव रुद्र उपस्पर्शनमित्युपदेश इति वदन्ति । बहुवच. मान्ते रुद्रशब्द उदकोपस्पर्शनं नेच्छन्ति सत्र किं मूलमिति चिन्त्यम् । न च रौद्रत्वे वहत्वैकत्वयोर्विशेषोऽस्ति । न च रुद्रो वै क्रूर इत्येकस्यैव क्रौर्याभिधानान बहूनामिस्ययमेव विशेप इति वाच्यम् । क्रूरसमुदाय Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262