Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथदीक्षितविरचितःदोष इत्य के । अपर आहुः : रखेन नोपधमेस् । नानि मुखेनोपश्मदिति मानवे दर्शनात् । स्मृत्यन्तरे तु
मुखेमोपधमैदग्निं मुखादमिरजायत ।। इति विधानादुभयोर्विकल्प इति । अपर आई-वाजसनेयके श्रौत. प्रकरण मुखादग्निरजायत तस्मान्मुखेनोपसमिध्यत इति दर्शनाच्छोते मुखेनोपधमनमन्यत्र स्मातः प्रतिषेध इति । अन्ये तु वैणवेनाऽऽयसेन वा समुघिरेणोपधमनमिच्छन्ति । एवमग्नेर्मुखव्यापारस्यान्वयाच्छ्रतिरप्यनु. गृहीता भवति । आस्यबिन्दूनां पतनशङ्काभयात्प्रतिषेधस्मृतिरपीति । संग्रह
धमनीमन्तरा कृत्वा तृणं वा काष्टमेव वा । मुखेनोपधमेदगि मुखादगिरजायत ।। देणारमिप्रमतत्वाद्वेणुरग्नेश्च पावनः ।
तस्माद्वेणुधमन्यैव धमेदान विचक्षणः ॥ इति । श्रतिरपि-तेजो वै वेणुस्तेजः प्रवर्यस्तेजसैव तेजः समर्धयतीति । अत एवाणुस्पर्शनिषेध उक्तः । स्मृत्यन्तरे-न वेणुनाऽपिं संस्पृशे. दिति । संस्पर्श निषिद्धे किमु वक्तव्यमभ्याषाननिषेध इति । अन घान्याह देवल:
वस्त्रेण वाऽथ पणेन पाणिशूपस्यदारुभिः।
न कुर्यादग्निधमनं न कुर्याद्वयजनादिना । इति ॥ संग्रहे--
पर्णेन धमने व्याधिः शूर्पण धननाशनम् । पाणिना मृत्युमामोति दारुणा कान्तिनाशनम् ॥
वस्त्रेण स्त्रीविनाशः स्यादास्येनाऽऽयुःक्षयो भवेत् ॥ इति । यत्तु मुखेन धमनक्रियेति मुखधमनस्य कलिवर्जनं तत्साक्षान्मुख. धमनस्यैव न तु धमनीमन्तरा कृत्वेत्यनेन विहितस्यापीति द्रष्टव्यम् । आज्याहुतीनामतिबाहुल्य एकाज्यस्थाल्यसंभवेनानेका महत्य आज्यस्थाल्य उपयोक्तच्याः । प्रदर्शितं चास्त्याचार्येण-असंभवाद्वा यथाs. श्वमेधे पमुकर्मस्वित्यनेन सूत्रेण । तावतीषु स्थालीषु पृथक्पृथक्समन्त्रं निर्वापादि । अथवैकस्यामेव पृथक्पृथनिर्वापः कार्यः। प्रायोगिकास्तु संस्कृते स्थालीगताच्य एव लौकिकं सर्पिरानीय तेन कर्म कुर्वन्ति ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262