Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
उपोद्घातः। आहारे जपकाले च पादुके परिवर्जयेत् ॥ आरुह्य पादुके यस्तु गृहात्परगृहं व्रजेत् ।
छेत्तव्यौ चरणौ तस्य नान्यो दण्डो विधीयते । इति । पूर्वश्चकारो देवतायतनसंग्रहार्थः । द्वितीयो होमादिसंग्रहार्थः । पाधानवत्सोमयागादावपि. पित्रादिष्वकृतसोगयागादिषु विद्यमानेषु पुत्रादेरनधिकारः । तथा च मण्डन:--
परीष्टिदोषसंप्राप्तौ न यष्टन्य कदाचन । दशेष्टि पौर्णमासेष्टिं सोमेज्यामग्निसंग्रहम् ॥ अग्निहोत्रं विवाहं च प्रयोगे प्रथमे स्थितम् ।
न कुर्याजनके ज्येष्ठे सोदरे वाऽप्यकुर्वति ।। इति । दर्शपौर्णमासयोः पृथगुपादानं कृते पौर्णमासे प्रतिबन्धादिना चाकसदर्शेऽपि दोषं वक्तुम् । एवमग्रे संग्रहाग्निहोत्रयोः कृताधानस्याकृताग्रिहोत्र. स्यापि । विवाहग्रहणं भ्रातमात्रविषयम् । प्रथमग्रहणं पुनराधानादौ पित्रादेरकृतपुनराधानत्वेऽपि पुत्रादेरदोष इति दर्शयितुम् । अपिशब्देन पिता. महः संगृहीतो भवति । सोदर इत्यनेनासोदराणामदोप इति दर्शितम् । अत एव तत्रैवोक्तम्--
क्षेत्रजादावनीजाने विद्यमानेऽपि सोदरे।
नाधिकारविघातोऽस्ति भिन्नोदर्येऽपि चौरसे ॥ इति । पूर्वार्ध क्षेत्रजादीनां पितरमभिप्रेत्य सोदरत्वं द्वितीया दत्तकादीनां मातृतोऽप्यसोदरत्वम् । यागादावप्याज्ञायां न दोष इति सत्रैव---
पिता यस्याग्रजो भ्राता न कुर्याद्वा पितामहः ।
तपोऽग्निहोत्रं यज्ञं वाऽऽज्ञया कुर्यात्कठाश वात् ।। इति । निमित्तविशेषेषु त्वाज्ञां विनाऽप्यदोषः मुमन्तुनोक्तः--
व्यसनासक्तचित्तो वा नास्तिको वाऽथवाऽग्रजः।
कनीयान्धर्मकामस्तु आधानमथ कारयेत् ।। इति । अग्रज इति पित्रादेरुपलक्षणम् । आधानमिति यागादेः । अथवेति स्मृत्यन्तरोक्तजात्यन्धबधिरपङ्ग्वादिसंग्रहार्थम् । आज्ञायामपि कचिददोषः कचिच्च दोष इत्युक्तं मण्डनेन--
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 228 229 230 231 232 233 234 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262