Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
भट्टगोपीनाथदीक्षितविरचिन:नसमेति कृतमकमपवर्जयतीति । सजातीये विजातीये कर्मणि संस्कार्येषु पदार्थेषु मध्य एकमेकमेव पदार्थमनुक्रमेण सजातीयेनैकेनैव कर्मणाऽनुसमेति संवघ्नात्यनन्तरं तथैव विजातीयेनापीति । सोऽयं पदार्थानुसमय इति व्यपदिश्यते क्रमविशेषः । अथ पदार्थानुसमय उच्यते कृत्स्नमित्यादिना । चतुरो मुष्टीनिर्वपति कपालान्यष्टावुपदधातीत्यायुदाहरगम् । तथा संयुक्तानि त्वकापवर्गाणि यथाऽवदानप्रदाने उद्वपनं निष्पवनं चेति प्रधानसंनिकर्षात्क्रियन्त इति । कात्यायनोऽपि-तुल्यसमवाये सामान्यपूर्वमानपूर्व्ययोगादित्यनेन पदार्थानुसमयं प्रदर्शितवान् । नैककर्पणि संबन्धादित्यनेन निर्वापकपालोपधानादावपि पदार्थानुसमयप्राप्तिं निवा. रितवान् । ग्रहणसादनावदानेषु तु वचनादिति मूत्रण पदार्थ मेदेऽपि संयुक्तत्वेन काण्डानुसमय एवैतेनिति प्रदश्यते । न द्रव्यभेदे गुणयो. गादिति वात्स्य इत्यनेन सप्तदशसु प्राजापत्येष्ववदानस्य प्रदानान्तता व्यावत्यते । सूत्रे-न यज्ञाङ्गेनाऽऽत्मानमन्यं वाऽभिपरिहरतीनि । यज्ञानेन रफ्यादिनाऽऽत्मानमन्यं वाऽभिलक्षीकृत्याऽऽगच्छल्लोष्टादि न परिहरति दूरी करोति । तथा शूर्पादिना धूमादिवाधाऽपि न परिहर्तव्या नापि मक्षिकादिनिवारणम् । आत्मसहचरितो जीव एवान्यो गृह्यते । तेन यज्ञपात्रज्ञपात्राणां मक्षिकादिनिवारणे न दोषः । अस्मरणेन परिहारे कृते सर्वप्रायश्चित्तं कुर्यादिति । तथा न विहारादुपपर्यावर्तत इति । न विहारादपच्छिद्य वर्तत इत्येक वाक्यम् । अपच्छेदनं व्यावर्तनं पृष्ठतः करणमिति यावत । तथा चाऽऽश्वलायन:-विहारादब्यावृत्तिस्तत्र चेत्कर्मेति । द्वितीयं वाक्यं विहारं प्राप्य न पर्यावर्तन इति । ल्यलोपे पश्चमी । आत्मानं परीत्य नाऽऽवर्तत इति । स्पटमेतदुक्तं वोधायनेन--- यदि प्राङ्दक्षिणेनांसेन पर्यावर्तते यदि प्रत्यङ्सव्येनेति । भरद्वाजोऽप्येवम् । तथा चाऽऽत्मानं मध्ये कृत्वा न पर्यावर्तनीयमित्यर्थः । कात्यायन:- गाईपत्याहवनीयो न व्यवेयाद्विवृत्याऽऽनृत्य वेतरथाऽऽवृत्तिरतीत्य निष्क्रमणमुत्तरत उपचारो यज्ञो दक्षिणतो ब्रह्मयजमानयोरासने पश्चाद्यजमानो वदिस्पगिति । परिभाषामूत्रे-अन्त. राणि यज्ञाङ्गानि बाह्याः कर्तार इति । अन्तराणि यज्ञाङ्गानीत्यत्र केपामित्यपेक्षायामग्नीना प्राधान्यादुपस्थितिस्तेपामन्तराणि । अन्तरशब्द: परिधानवाची । ततस्तु परिधानमिव संलग्नानि समीपस्थानीत्यर्थः । बाह्या वहिर्भवाः । केभ्य इत्याकाङ्क्षायां यज्ञाङ्गभ्य इत्युपस्थितत्वात् ।
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262