Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte
View full book text
________________
५३
पोद्घाता। यतस्तान्यन्तराणि समीपस्थानि तेषामनीनां च मध्ये कर्तभिन संचरगी. यमित्यर्थः । वर्तणां मध्ये यजमानोऽन्तरः। ततः पत्न्येव बाह्या। ताभ्यामध्वर्युरेव । तेभ्यो ब्रह्मव । ततो होतैव । तत उद्गातैन । एवमन्य उतरो. त्तरं यथायथम् । यज्ञाङ्गानि कर्तव्यतिरिक्तानि सर्वाणि यज्ञार्थद्रव्याण्य. भिधीयन्ते । पारिशेष्यादेव कातणां वाह्यत्वे सिद्ध बाह्याः कर्तार इति वचनं यजमानपन्योरपि बाह्या ऋत्विजो भवेयुरिति ख्यापनार्थम् । तथविजामपि परस्परं जघन्यो ब.ह्य इति । उक्तं चाऽऽश्वलायनेनउत्तरेण होतारमतिब्रजेदक्षिणेन दण्डं हरेदिति । एतत्सर्व बोधायनः स्पष्टमाह-न मन्त्रवता यज्ञाङ्गेनाऽऽत्मानमभिपरिहरेदभ्यन्तरागि यज्ञागानि बाह्या ऋत्विजः पत्नीय जमानावृत्विरभ्योऽन्तरा यज्ञाङ्गेभ्य आज्यमाज्या षि हविर्यः पशः पशोः सोमः सोमादग्नयो यथाक्रममृत्विजो न विहारादभिपर्यावर्तेरन्प्राङ्गच्छन्दक्षिणमंसमभिपर्यावर्तयेल. वङ्गच्छन्सव्यमिति । तथा प्राचीनावीती पिच्याणि करोति यज्ञोपवीती दर्शपूर्णमासयोरग्निहोत्रे चानियमोऽन्यत्रेति । दर्शपूर्णपासाग्निहोत्रेभ्योऽन्येषु कर्मसु पित्र्येषु यज्ञोपवीतीत्यनियमै नियमो नास्ति । यथा स्मत्या प्राप्तं तथैवेति । यत्र प्राचीनावीतिता स्पष्टमुक्ता तत्रैव । अन्यत्र सर्वत्र यज्ञोपवीतितवेति । मानुषेषु कर्मसु गार्थेषु निवीतिता द्रष्टव्या । एवं यत्र स्पष्टं वचनं तत्रैवाप्रादक्षिण्यं नान्यत्रैत्यपि द्रष्टव्यम् । तथा चोदना. संयोगात्प्रधानान्येककालानि तेषां विभवन्ति तन्त्रमङ्गान्यविभवन्त्या. वर्तन्त इति । तथा नानाकालेष पृथग्यः प्रधानस्य कालः सोऽङ्गाना स देशः स कर्ता सोऽनिरिति । तथा-आधानप्रभृति यावजी पात्राणि धार्यन्ते तेषां प्रतितन्त्र सस्कारोऽभ्यावर्नत इति। तथा यजुदेनाध्वर्यः करोत्यग्वेदेन होता सामवेदेनोद्गाता वचनलक्षणा इतरे यथाऽश्वमेधे पशुकस्विति । तृतीयप्रश्ने-अन्यस्मिश्च द्रव्ये तेनार्थेन संयुज्यमाने धर्मावश उत्करे वाजिनमासादयत्यश्वे पशूनियुञ्जन्ति परिधी पशुभियुञ्जन्तीति । तत्रैव दविहोमान्व्याख्यास्यामो जुहोतीति चोद्यमाने दर्विहोमो यत्र च स्वाहाकारस्तास्तूष्णीकेनाऽऽज्येन सकृद्गहीतेनाग्रेणाऽऽहवनीयं परीत्य दक्षिणतस्तिष्ठजुह्वाऽऽहवनीयेऽध्वर्यु। स्वाहाकारेण जहोति द्विप्रभृतिष्वाहतिगणेषु प्रत्याहति गृहीत्वा प्रत्याहुति समिधोऽभ्याधाय विग्राहं जुहोति यत्र मन्त्रगणेन कर्म चोदयेत्यतिमन्त्रं तब जहुयादिति । इदं दर्विहोमधर्मविधायकं सूत्रम् । अस्मिन्सूत्रे य:
Shree Sudharmaswami Gyanbhandar-Umara, Surat
www.umaragyanbhandar.com

Page Navigation
1 ... 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262