Book Title: Sanskar Paddhati
Author(s): Bhaskar Shastri, Sudev Shastri
Publisher: Vinayak Ganesh Apte

View full book text
Previous | Next

Page 237
________________ भट्टगोपीनाथदीक्षितविरचितःअल्पाक्षरमसंदिग्धं सारवद्विश्वतोमुखम् । अस्तोभमनवयं च सूत्रं सूत्राक्दो विदुः ॥ इति । अस्तोभं निरर्थकाक्षररहितम् । अनवद्यमनुपमम् । वेदार्थबोधनात् । यत्र व्याचष्ट इति शब्देन विधिस्तत्र वाक्यश ए पाठो नियतः । यत्र मत्रकृता सातत्येन मन्त्रः पठ्यते तत्र संनत एव पाठो नियतः। एन. दन्यत्र स्वादनियम इति व्यवस्था द्रष्टव्या । परिभाषासूत्र-यत्रका स्मिन्द्रव्ये चेष्टापृथक्त्वेनाओं निष्पद्यते सकृदेव तत्र मन्त्रं याद्यथा प्रोक्षणे यूपच्छेदने चेति । त्रिः प्रोक्षतीत्युदाहरणम् । द्वितीयोदाहरणं सामर्थेनाभ्यासप्रदर्शनार्थ व्यक्त्येकत्वप्रदर्शनार्थ च । पात्राणीति जात्या पात्रत्वेन समुदायस्य क्रोडाकारेणैकशब्दत्वादेकत्वम् । न त्वेकवचनान्तत्वेनैव व्यक्त्येकत्वेनैव वा, उदेश्यकाचनस्याविवक्षितस्वात् । यथा बर्हिरासाद्य प्रोसनीति बर्हिःशब्देनकधःण क्रोडीकृतमेकं द्रव्यामिति । तथा द्रव्यपृथक्त्वेऽभ्यावर्तते यथाऽऽज्य ग्रहणे लवने स्तरणे चेति । यदप्याज्यशब्देनैकमेव द्रव्यं तथाऽपि षोडशाऽऽज्यानि भवन्तीत्यवान्तरद्रव्यदः । बहिलनातीत्यादौ द्रव्यैकत्वेऽपि मुष्टिमात्रस्यावयवत्वे सनखं मुष्टिं दातीति विधानात् । बहिषा बेदिं स्तृणाती. त्येकद्रव्यत्वेऽपि विधातु पञ्चधातु वेति विभागेन स्तरणविधानात् । धातो धातौ मन्त्रमावर्त यतीत्यग्रिम सूत्रं तु बर्हिषः संसद्रव्यस्यैकत्वेन द्रव्यपृथक्त्वेनाऽऽवृत्त्यप्राप्तावपि निधनोपाधिना द्रव्य पृथक्त्वं मा भूरिकतु धातूपाधिनैवेतिनियमार्थमुक्तम् । अत्र भरद्वाजो विशेषमाह-- मन्त्रव्यवाये मन्त्राभ्यासो द्रव्यपृथक्त्वेऽर्थपृथक्त्वे देशपृथक्त्वे च यथा कण्डूयनस्वमनदीतरणाभिवर्षणामध्यप्रतिमन्त्रणानीति । जैमिनिमते तु न । तथा चैकादशाध्याये चतुर्थपादे तत्सूत्रम्-कण्डूयने प्रत्यङ्गं कर्मभेदात् । मत्रार्थस्तु कण्डयने प्रत्यङ्ग मन्त्रावृत्तिः स्यात्कर्मभंदादिति । अपि वा चोदनक्यादेकाम्य स्यादिति । अपि वेति पूर्वपक्षव्या. वर्तकः । दुःखान भिन्नत्वेऽपि तदपनयनं सर्वमेव विवक्षितं न तु स्वरूपेण चिकीर्पितम् । आत्मानं कण्डतिदःखाक्षिप्तचित्तमपनीतकण्डदुःखं कर्तु कण्डूयनं क्रियते । तेन यावता दुःखेनानपनीतेनाऽऽत्मनि दुःखं भवति तावत्समपनेतुमभिसंशय कण्डयनमपक्रमत इति कृत्वा चोदनक्यं भवति । तत ऐककर्म्यमेव भवति । नाप्यङ्ग संस्कारो येन तद्भदाद्भेदः स्यात् । यावदपनीतं दुःखमा Shree Sudharmaswami Gyanbhandar-Umara, Surat www.umaragyanbhandar.com

Loading...

Page Navigation
1 ... 235 236 237 238 239 240 241 242 243 244 245 246 247 248 249 250 251 252 253 254 255 256 257 258 259 260 261 262